Proofing

2026-04-02 21:26:47 by ambuda-bot

This page has not been fully proofread.

१०६
 
श्रीशिवस्तोत्रेषु
 
श्रीलक्ष्मीशविरिश्चिपूजितपदं शुभत्त्रिशूलायुधं
श्रीमद्भृङ्गिकुमारनन्दिगणप श्रीवीरभद्रादिभिः ।
सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
 
श्रीगुण्टूरपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८ ॥
 
श्रीकोप्पराजकुलवार्धिनिशाकरेण
 
स्तोत्रं कृतं जगति सुब्बयनामभाजा-
गस्त्येश्वरस्य निजभक्तजनावनस्य
 
यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९ ॥
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥
 
३३. ॥ अथ श्री दशश्लोकी ॥
 
यद्यत्प्रसादविमुखेन पुरा न लब्धं
 
लब्धं यदद्य च गुरो भवतः प्रसादात् ।
विज्ञापयामि तदिदं कुतुकातिरेक-
 
संप्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १ ॥
 
न त्वां स्मरामि न भजामि यजामि नान्त-
न वा बहिर्न च शिवं न च दैवमन्यत् ।
नाहं भवामि न च नाहमहं भवामि
 
किं वा भवामि तदहं न हि वक्तुमीशे ॥ २ ॥
 
साक्षादहं स परमः शिव एव जातो
जातोऽधुना स परमोऽपि शिवोऽहमेव ।
 
आवां पुरा चिरमभूव तमः प्रकाश-
 

 
"
 
"
 
परस्परयु .
 
..
 
पयसे इवाद्य ॥ ३ ॥
 
मत्तस्तदेतदखिलं जगदाविरस्ति
 
मत्तश्च जीवति लयं च तथा [ तथैव ] मतः ।
मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो
 
मत्तो न चैतद्मुतोऽपि च नाहमन्यः ॥ ४ ॥
 
आधारये क्षितिरहं सततं पयोऽहं
 
संप्लावये परिपचामि च पावकोऽहम् ।
आन्दोलयामि पवनोऽहमिहावकाशं
 
मुखामि चाम्बरमहं स्थितये ममैव ॥ ५ ॥