Stotrarnava /152
This page has not been fully proofread.
१०६
श्रीशिवस्तोत्रेषु
श्रीलक्ष्मीशविरिश्चिपूजितपदं शुभत्त्रिशूलायुधं
श्रीमद्भृङ्गिकुमारनन्दिगणप श्रीवीरभद्रादिभिः ।
सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
श्रीगुण्टूरपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८ ॥
श्रीकोप्पराजकुलवार्धिनिशाकरेण
स्तोत्रं कृतं जगति सुब्बयनामभाजा-
गस्त्येश्वरस्य निजभक्तजनावनस्य
यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९ ॥
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥
३३. ॥ अथ श्री दशश्लोकी ॥
यद्यत्प्रसादविमुखेन पुरा न लब्धं
लब्धं यदद्य च गुरो भवतः प्रसादात् ।
विज्ञापयामि तदिदं कुतुकातिरेक-
संप्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १ ॥
न त्वां स्मरामि न भजामि यजामि नान्त-
न वा बहिर्न च शिवं न च दैवमन्यत् ।
नाहं भवामि न च नाहमहं भवामि
किं वा भवामि तदहं न हि वक्तुमीशे ॥ २ ॥
साक्षादहं स परमः शिव एव जातो
जातोऽधुना स परमोऽपि शिवोऽहमेव ।
आवां पुरा चिरमभूव तमः प्रकाश-
क
"
"
परस्परयु .
..
पयसे इवाद्य ॥ ३ ॥
मत्तस्तदेतदखिलं जगदाविरस्ति
मत्तश्च जीवति लयं च तथा [ तथैव ] मतः ।
मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो
मत्तो न चैतद्मुतोऽपि च नाहमन्यः ॥ ४ ॥
आधारये क्षितिरहं सततं पयोऽहं
संप्लावये परिपचामि च पावकोऽहम् ।
आन्दोलयामि पवनोऽहमिहावकाशं
मुखामि चाम्बरमहं स्थितये ममैव ॥ ५ ॥
श्रीशिवस्तोत्रेषु
श्रीलक्ष्मीशविरिश्चिपूजितपदं शुभत्त्रिशूलायुधं
श्रीमद्भृङ्गिकुमारनन्दिगणप श्रीवीरभद्रादिभिः ।
सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
श्रीगुण्टूरपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८ ॥
श्रीकोप्पराजकुलवार्धिनिशाकरेण
स्तोत्रं कृतं जगति सुब्बयनामभाजा-
गस्त्येश्वरस्य निजभक्तजनावनस्य
यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९ ॥
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥
३३. ॥ अथ श्री दशश्लोकी ॥
यद्यत्प्रसादविमुखेन पुरा न लब्धं
लब्धं यदद्य च गुरो भवतः प्रसादात् ।
विज्ञापयामि तदिदं कुतुकातिरेक-
संप्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १ ॥
न त्वां स्मरामि न भजामि यजामि नान्त-
न वा बहिर्न च शिवं न च दैवमन्यत् ।
नाहं भवामि न च नाहमहं भवामि
किं वा भवामि तदहं न हि वक्तुमीशे ॥ २ ॥
साक्षादहं स परमः शिव एव जातो
जातोऽधुना स परमोऽपि शिवोऽहमेव ।
आवां पुरा चिरमभूव तमः प्रकाश-
क
"
"
परस्परयु .
..
पयसे इवाद्य ॥ ३ ॥
मत्तस्तदेतदखिलं जगदाविरस्ति
मत्तश्च जीवति लयं च तथा [ तथैव ] मतः ।
मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो
मत्तो न चैतद्मुतोऽपि च नाहमन्यः ॥ ४ ॥
आधारये क्षितिरहं सततं पयोऽहं
संप्लावये परिपचामि च पावकोऽहम् ।
आन्दोलयामि पवनोऽहमिहावकाशं
मुखामि चाम्बरमहं स्थितये ममैव ॥ ५ ॥