This page has not been fully proofread.

पोडशः पाठः- मधुकराः
उच्चावचं पुष्परसं निपीय
निधाय चैनं मधुकोशपत्रे ।
तन्वन्ति तावत् स्वयमात्मतृप्तिं
 
धिन्वन्ति पश्चाद्भुवनं च तेन ॥
बाला: पडङ्घीननुकृत्य नित्यं
 
नानाविधात् पुस्तकपुष्पवृन्दात् ।
सञ्चिन्वते ज्ञानरसं रसाग्रयं ॥
 
सम्मोदयन्ते च जगत् समग्रम् ॥
 
१. बालाः षडङ्घीननुकुर्वन्ति, पुस्तकपुष्पात् रसं
सञ्चिन्वन्ति च । २) मधुकराः पुष्पेभ्यो मकरन्तं
लिहन्ति, परेषां तृप्तिं तन्वन्ति च ।
 
51
 
१) प्रश्नाः – १. मधुवताः क इव भान्ति ? २. ते किं कुर्वन्ति ?
३. मधुव्रताः स्वयं किं लभन्ते ? ते पश्चात् किं कुर्वन्ति ?
५. बालाः षडङ्घीननुकृत्य किं कुर्वन्ति ?
२) शत्रन्तैः पदैः वाक्यानि पूरयत-
१. वसन्ते चूताङ्कुगन् ( सु+अद् ) पिकाः मधुरं गायन्ति ।
२) रामकथानादं (श्रु) कः परां मुदं न याति ।
३. मधुकराः पुष्पेभ्यो मधु (लिह्) ... मधुरं गुञ्जन्ति ॥
३) प्रयोगं विपरिणमयत -
 
४) उपसर्गयोगादर्थ भेदः -
 
-
 

 
चि-चिनोति, चिनुते, निश्चिनोति, परिचिनोति, विचिनोति ।
सञ्चिनोति - एवमात्मनेपदेऽपि द्रष्टव्यम् ।
मद् – माद्यति । उन्माद्यति, प्रमाद्यति ॥