This page has not been fully proofread.

14
 
संस्कृतद्वितीयादशें
 
५. कमलम्
 
कमलानि परसिप जायन्ते । अतस्तानि सरसि-
जानि पङ्कजान्यम्भोजानीत्यादिभिः शब्दैर्व्यवहियन्ते । कमलेषु
नानाजातयः सन्ति । तत्र नीलमम्भोरुहम् 'उत्पलम्' इति,
रक्तम् 'कोकनदम्' इति, सितम् ' पुण्डरीकम्' इति चाभिधां
भजति ॥
 
कुवलयान्यपि सरसिपक एव जायन्ते । अथापि तेषां
न पङ्कजादिशब्दैर्व्यवहारः । कुवलयानि कमलाकाराण्येव ।
किन्तु तेषु सौगन्ध्यं नास्ति ॥