This page has not been fully proofread.

12
 
संस्कृतद्वितीयादर्श
 
४. परोपकारप्रशंसा
 
श्रूयतां धर्मसर्वस्वं यदुक्तं ग्रन्थकोटिषु ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
परोपकारः कर्तव्यः प्राणैरपि धनैरपि ।
परोपकारजं पुण्यं न स्यात् ऋतुशतैरपि ॥
परोपकारशून्यस्य धिङ् मनुष्यस्य जीवितम् ।
जीवन्तु पशवस्तेषां चर्माप्युपकरिष्यति ॥
 
8
 
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥
श्रोत्रं तेनैव न कुण्डलेन दानेन पाणिन तु कङ्कणेन ।
विभाति कायः खलु सज्जनानां परोपकारेण न चन्दनेन ॥ ५
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षः ।
नादन्ति सस्यान्यपि वारिवाहाः परोपकाराय सतां विभूतयः ॥
 
१) प्रश्ना:- १. ग्रन्थकोटिषूक्तं धर्मसर्वस्वं किम् ? २. कुतः परोप-
कारः कर्तव्यः ? ३. 'जीवन्तु पशवः' कुत इदं प्रार्थ्यते ?
४. परोपकाराय के किं कुर्वन्ति ? ५. सज्जनानां काय: केन
विभाति ? ६. 'परोपकाराय सतां विभूतयः' इर्द दृष्टान्तेन
निरूपयत १