This page has not been fully proofread.

तृतीयः पाठः-नालिकेरवृक्षः
 
पादैर्भूतलाञ्जलमाकृष्य पिबन्ति । क्रमशः प्रवृद्धास्ते प्रथमवयसि
पीतं तोयं स्मरन्त हवामृतकल्पमुदकं शिरसि बहन्तो मनुष्याणां
प्रत्युपकार माचरन्ति ॥ उक्तं च नीतिशतके -
"प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
 
शिरसि निहितभारा नारिकेला नराणाम् ।
उदकममृतकल्प दराजीवनान्तं
 
न हि कृतग्रुपकारं साधवो विस्मरन्ति ॥ " - इति ।
नालिकेरस्य सर्वमङ्गं सप्रयोजनं दृश्यते । केरफलसारो
न केवलं विविधेभ्यो व्यञ्जनेभ्य उपयुज्यते, किन्तु तमातपे
शोषयित्वा यन्त्रे निधाय निष्पीडितात् तस्मात् स्नेहोऽपि गृह्यते
जनैः । स्वेहग्रहणात् परमवशिष्यमाणः कल्कः पिण्याकम् ।
पिण्याकं गोभ्यो रोचते। केचित्तु तेन विविधान् भक्ष्यविशेषान्
कुर्वन्ति ॥
 
नालिकेर:- शाखारहितो वृक्षः । चित्रमवलोक्यताम्-
दृश्यते तत्र दीर्घदीघों नालिकेरकाण्डः । काण्डस्य शिरसि द्वा-
दशाधिकानिपत्राण्यवेक्ष्यन्ते । केषुचिदेशेषु केरपत्रैर्गृहपटलादिकं
निर्मीयते। तस्य काण्डोऽपि पनसादिवद् गृहदारुत्वेनोपयुज्यते ।
फलत्वचा रज्जवः क्रियन्ते, आस्तरणान्यप्यूयन्ते ॥
 
अपरिणतं नालिकेरं लाङ्गलीत्युच्यते । लाङ्गलीजलं
निदाघकाले पीयमानं स्वादु हितं च भवति । मद्यकाराः
पल्लवकाण्डात् स्यन्दमानं रसं गृहीत्वा मद्यं संपादयन्ति । तत्
 
9