This page has not been fully proofread.

00
 
संस्कृतद्वितीयादश
 
३. नालिकेरवृक्षः
 
वृक्षोऽयं नालिकेर इति नारिकेल इति नारिकेर इति
नारीकेल इति नाडिकेर इति केर इति चैवं बहुधाऽभिधीयते ।
केरोऽयं केरलेषु बाहुल्येन प्ररोहति । अत एवास्य देशस्य
'केरलव्यपदेशः' इत्याचक्षते जनाः ॥
 
नालिकेस: समुद्राणामासनेषु सिकतिलेषु प्रदेशेषु
अरोप्यमाणाः पञ्चषैरब्दैः फलन्ति । बाल्ये नालिकेराणां द्वित्राणि
वर्षाणि यावजलसेचनमावश्यकम् । ततः परं ते स्वयमेव