This page has been fully proofread once and needs a second look.

मातृका श्रीगुरुसार्वभौमसंस्कृतविद्यापीठीया अन्या च श्री राजा
एस्. गिरि आचार्याणां चेति द्वे मातृके समुपयुक्ते । तद्दातृभ्यः
कृतज्ञतामावेद्य, एतद्द्रन्थमुद्रापणानुज्ञां दत्तवद्भ्यः श्रीश्रीसुशमीन्द्र-
तीर्थश्रीचरणेभ्य: प्रणतितती: समर्पयाम: । एतद्गन्थावलोक-
यितृभ्यः श्री गुरुवर्याः श्री सुधर्मेन्द्रतीर्थमहोदया: नित्यमहोभाग्यं
वितरन्तु, श्री राघवेन्द्रतीर्थगुर्वन्तर्यामी भारतीशान्तर्गतः श्री
मूलरामचन्द्रः तान् सकलभाग्यप्रदानपूर्वकं रक्षत्विति संप्रार्थयामहे ।
 
मंत्रालय क्षेत्रम्
भाववत्सरीय शुक्ला षष्ठी
7-1-1995
 
विदुषां वशंवदाः
साणूरु भीमभट्टाः
राजा एस्. पवमानाचार्या: