This page has been fully proofread once and needs a second look.

किञ्चित् प्रास्ताविकम्
 
अस्याः सुधर्मेन्द्रमहोदयनामिकाया: लघुकृते: अलंकार-
शास्त्रैकदेशलक्षणग्रन्थरूपाया: लक्ष्यरूपा: श्रीसुधर्मेन्द्रतीर्थमहोदयाः
पूर्वाश्रमे भारद्वाजगोत्रोद्भवाः श्रीगणेशाचार्यनाम्ना प्रसिद्धवैया-
करणा: श्रीसुज्ञानेन्द्रतीर्थश्रीपादानां प्रीत्यादरभाजनान्यभूवन् ।
श्रीसुज्ञानेन्द्रतीर्थगुरुभ्य एव स्वीकृततुर्याश्रमा: मंत्रालयक्षेत्रे
बहुवर्षपर्यन्तं श्रीमूलरामपूजां श्रीगुरुराजसेवां च निर्वहन्त एते
आचार्येभ्यः त्रिंशाः परमहंसा: हंसनामकपरमात्मन: दिग्विजय-
विद्यासिंहासनं पर्यभूषयन् मंत्रालयक्षेत्रे गुरुगजसन्निधावेव
वृन्दावनं प्रविश्य हरिध्यानपरायणा अभवन् ।
 
एतेषां महानुभावानां परमानुप्रभाजनीभूताः काव्य-
शास्त्रोभयनदीष्णाः श्रीकृष्णावधूतपण्डिताः श्रीगुरुसार्वभौम
राघवेन्द्रतीर्थकर्मन्दिनामन्तरङ्गभक्ता: माकिं षष्टितोऽप्याधिकान्
ग्रन्थान् निरमासिषुः । तेषु मंदारमरंदचम्पू: राघवेन्द्रपटलम्,
सुलभव्याकरणम्, तर्कसंग्रहव्याख्यारूप: पदार्थसागर: इत्यादयो-
ऽनेके ग्रन्थाः सुग्रहा: सुज्ञानप्रदाश्च वर्तन्ते । अनेके ग्रन्थाः मुद्रा-
पिताश्च विराजन्ते ।
 
प्रकृतं सुधर्मेन्द्रमहोदयनामकमिदं लघुलक्षणकाव्यम् लक्ष्य-
भूतानां तेषामेवाराधनमहोदये तदनुग्रहाशंसया इदंप्रथमतया
संशोध्य मुद्रापयित्वा संप्रकाश्यते । अस्य ग्रन्थस्य संशोधनसमये एका