This page has been fully proofread once and needs a second look.

यथा तुष्यन्ति विबुधाः सुधर्मेन्द्रमहोदयात् ।
तथा कृष्णकवीशस्य सुधर्मेन्द्रमहोदयात् ॥ १६ ॥
 
॥ इति श्रीकृष्णावधूतकवीशविरचितः
सुधर्मेन्द्र महोदयः समाप्तः ॥
 
को दामत्वमवाप वार्धिमथने[^1] मन्थानतां[^2] चाप को
मन्थानो विधृतश्च[^3] केन विभुना कोऽभूत्तमोघ्नस्ततः ।[^4]
कस्तत्रोत्थविषं[^5] पपौ सुरगणे दत्तञ्च केनामृतम्[^5]
तत्प्रश्नोत्तरमध्यवर्णघटिते भूयात्सुभक्तिर्मम ॥
 
वाहीकृतमहाधेनुगणाधिपविनायकौ[^7] ।
भवतां भवतां भूत्यै पार्वतीपरमेश्वरौ ॥
 
-
[^1]वासुकि: - सु
[^2]भूधरः - ध
[^3]कूर्मेण - र्मे
[^4]चन्द्रमाः - न्द्र
[^5]सुयोगी - यो
[^6]योगीशेन - गी
 
सुधर्मेन्द्रयोगी। सुधर्मेन्द्रयोगिनि मम सुभक्तिर्भूयात् इति
कविराशास्ते ।
 
[^7] वाहीकृतः महाघेनुगणाधिपः नन्दी, एवं वाहीकृतः वीनां
पक्षिणां नायकः गरुडः याभ्यां पार्वती - परमेश्वराभ्यां तथाभूतौ
शम्भुविष्णू ।