This page has been fully proofread once and needs a second look.

प्रदानाद्यस्याब्धिः शममयति मज्जीवनमिति
पुरोधायेवाभ्रं जिगमिषुबुधानां प्रसरति ॥ १३ ॥
 
अत्र किमिति कृपणानित्यादिना कथने सिद्धे वदामीतिवचनमनुप-
योगबाघितं सत्, उपदेशस्य सम्यक्त्वे पर्यवस्यति । ततस्तत्र
लक्षणा । अनेन सर्वेऽपि बुधाः श्रीसुधर्मेन्द्रमाश्रित्य दारिद्र्यं
जहुः । त्वमपि तथा कुरुषे चेत् छिन्नदारिद्र्यो भविष्यसि ।
चिन्तां मा गा इत्यादिशिक्षादानं व्यज्यते ॥
 
व्यंग्यार्थस्य व्यञ्जकत्वं यथा -
 
चातुर्यं किमु वर्ण्यते गुरुवरश्रीमत्सुधर्मेन्द्रगं
द्रव्योत्सर्जनमार्जनं यदकरोत् निर्बाधभाग्योदयः ।
यत्प्रत्यर्थिजनेषु जन्मसहजं वीक्ष्यैव दैन्यं सुहृत्
दारिद्र्यं सहते हि केवलममून्मत्वा शरण्यानिति ॥ १४ ॥
 
अत्रोत्तरार्धे उत्प्रेक्षालङ्कारेण केवलपदेन अन्यत्र दारिद्र्यं निषिध्य
प्रतिवादिष्वेव स्थापनात् परिसंख्यारूपार्थालङ्कारो व्यज्यते । तेन
प्रतिवादिनां श्रीसुधर्मेन्द्रभयेन खिन्नत्वमितरेषां तदाश्रयेण सौख्यं
व्यज्यते । तेन श्रीसुधर्मेन्द्रगुरोर्लोकोत्तरत्वं व्यज्यते । स्वतो
विरुद्धयोस्त्यागार्जनयोः स्वात्मकैकाधिकरणप्रापणाच्चातुर्यम् ॥
 
समस्तदेवसान्निध्यसिद्धिभाजो जगद्गुरोः ।
पावित्र्यं व्रजताद्वाणी सुधर्मेन्द्रस्य कीर्तनात् ॥ १५ ॥