This page has been fully proofread once and needs a second look.

अर्थस्तु त्रिविधः शक्यलक्ष्यव्यंग्यविभेदतः ।
 
शाब्दबोधजनकतासमानाधिकरणशक्तिविषयत्वं शक्तत्वम् ।
शाब्दबोधविषयतासमानाधिकरणशक्तिविषयत्वं शक्यत्वमिति
शक्तशक्ययोर्भेदः । एवमग्रेऽपि । एवं त्रिविधोऽप्यर्थः वक्तृ-
बोद्धव्यविशेषादिज्ञानादर्थान्तरस्य व्यञ्जको भवति । तदुक्तम् –
 
"[^1]वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ।
प्रस्तावदेशकालादेः विशेषात्प्रतिभाजुषाम् ।
योऽर्थस्यान्यार्थधीहेतुर्व्यापारी व्यञ्जनैव सा ॥" इति ।
 
नहि प्रियेत्यादौ बोद्धव्यविशेषस्य श्रीसुधर्मेन्द्रगुरुनिष्ठसकल-
वादिजयदक्षाखिलविद्यावैशद्यरूपार्थस्य ज्ञानाद्वक्तृनिष्ठपत्यपजया-
शङ्का व्यज्यते ॥ एवमन्यत्र यथासम्भवं द्रष्टव्यम् ।
 
इदमेव शक्यार्थस्य व्यञ्जकत्वे उदाहरणम् । लक्ष्यार्थस्य
व्यञ्जकत्वन्तु पूर्वमेव तत्र तत्र द्रष्टव्यम् । यथा वा-
 
वदाम्येतद्धीमन् किमिति कृपणानर्थयसि तान्
व्रज त्वं जङ्घालुर्गुरुवरसुधर्मेन्द्रचरणम् ।
 
-
[^1]काव्यप्रकाशस्था एते श्लोकाः कविभिरेतैरेव कृतायां मंदार-
मरंदचम्प्वां समुद्धृताः । पुटम् १८१ निर्णयसागरयन्त्रालये १९२४
तमवर्षे मुद्रितं पुस्तकम् ।