This page has been fully proofread once and needs a second look.

शब्दशक्तिमूलका । नहि प्रियेत्यादावर्थसामर्थ्येनैव वक्तृ-
विवक्षितापजयाशङ्काप्रतीतेः अर्थशक्तिमूलका । उभयत्रापि
व्यञ्जनया अर्थप्रतिपत्तौ शब्दः सहकारी । शब्दशक्तिमूलक-
व्यञ्जनास्थले न लक्षणया निर्वाहः । वाच्यार्थबाधाभावात् ।
नाप्यनुमानेन चारितार्थ्यम् । औपम्यादिसाधकलिङ्गाभावात् ।
अर्थशक्तिमूलकव्यञ्जनास्थलेऽपि न लक्षणयोपपत्तिः । वाच्यार्थ-
बाधाभावात् । नाप्यनुमानेन निर्वाहः । व्यंग्यव्यञ्जकयोः
व्याप्त्यभावात् । तथाहि इयं वादिवधूः पत्यपजयाशङ्किनी नहि
प्रियेत्यादिवाक्यवत्त्वात्सम्प्रतिपन्नवदित्यादिप्रयोगः कल्पनीयः ।
पत्यपजयाशङ्काभावेऽपि प्रियविरहमसहमानाया ईदृशोक्तिसम्भ-
वात् व्यभिचारः[^1] । अतोऽनियतकार्यप्रतीतिर्व्यञ्जनयैव ॥
 
किञ्च एकस्मादेवार्थाद्वक्तृविवक्षानुसारेणानेकव्यंग्यार्थप्रतीति
रनुमानरीतिविरुद्धा । नात्राभिधा । तस्याः संकेतितार्थ एव कुण्ठित-
त्वात् शक्तिग्राहकाम्नायाभावाच्चेति ध्येयम् ॥
 
॥ इति शब्दनिरूपणम् ॥
 
-
[^1]अस्यानुमानस्य विरहिण्युक्ते वचने व्यभिचरितत्वात् इत्यभिप्रायः ।