This page has been fully proofread once and needs a second look.

मुदं जनानां जनयन्नजस्रं
भूमौ दधौ यः खलवादिशिक्षाम् ॥ ११ ॥
 
अत्र गुणादिपदानि रूढानि ॥
 
योगोऽवयबोधेन स्यादर्थस्याभिधायकः ।
अवयवार्थानुसन्धानपूर्वकं अर्थबोधको व्यापारो योगः ।
यौगिकं कथ्यते प्राज्ञैः योगेन सहितं पदम् ।
 
तर्हि व्यापारद्वयेनार्थबोधे वाक्यभेदापत्तिरिति चेदिष्टापत्तिः,
लौकिकवाक्यानां वक्तृविवक्षाधीनत्वात् । अर्थशक्तिमूलका
व्यञ्जना यथा-
 
नहि प्रियस्फुरत्कीर्ते जैत्रयात्रोन्मुखो भव ।
इति वादिवधूः प्रोचे सुधर्मेन्द्रे विराजति ॥ १२ ॥
 
अत्र वाक्यार्थशक्त्या त्वं सुधर्मेन्द्रसमीपे गतश्चेत् सर्ववादिजयाय
प्रवृत्तः सः त्वां सर्वथा जेष्यति । ततस्तव प्रवर्धमानकीर्तेरप-
यशःप्राप्तिर्भवतीति वस्तु व्यज्यते । अत्रेदं रहस्यम्–व्यञ्जना
शब्दस्यैव कल्पनीया नत्वर्थस्य । नहि प्रियेत्यादौ व्यञ्जनाया
अर्थवृत्तित्वेन निर्वाहेऽपि हंसो जयति सामोदेत्यादौ अप्राकरणि-
कार्थबोधाय शब्दवृत्तित्वमवश्यमङ्गीकरणीयम् । उभयवृत्तित्व-
कल्पने गौरवेण लाघवाच्छब्दवृत्तित्वमेव कल्प्यम् । सा त्वेकैव
नानार्थस्थले शब्दसामर्थ्येनैव व्यञ्जनया वक्तृतात्पर्यप्रतीतिरिति