This page has been fully proofread once and needs a second look.

सुधर्मेन्द्रश्चन्द्रो निवसतु चिराय क्षितितले
सहस्राक्षस्साक्षादवतरित उर्वीसुरतया ।
 
रघूत्तंसस्यार्चा पुनरपि विधातुं किमु न चे -
 
त्सुधर्मेन्द्रेत्याख्यां न भजति कुतोऽन्यो भुवि जनः ॥ १० ॥
 
अत्र "सर्वे देवा यतिनि सन्निविष्टाः तत्रापि हंसे परमहंसे
विशेषात् । तस्मादस्मिन् ध्याते पूजिते च सर्वे देवा ध्यात-
पूजास्ततो भावयेत्सर्वदेवमयत्वतो यति"मिति महाहंसो[^1]पनिष-
दुक्तेरिन्द्रादित्वाद्युक्तिः । अत्र सहस्राक्षादिपदं शक्तम् । चन्द्र-
पदस्य सामानाधिकरण्येनान्वयबाधात्तत्सादृश्यविशिष्टे लक्षणा ।
ततश्च सुधर्मेन्द्रचन्द्रयोरभेदान्वयः । पुनरितिपदन्तु पूर्वमिन्द्रो
जयतीर्थगुरुत्वेनावतीर्य रघुपतिपूजामकरोदित्यर्थस्य व्यञ्जकम् ।
व्यञ्जकं पदं वाक्यञ्च भवति । शक्तं लक्षकञ्च पदमेव । न तु
वाक्यम् । तत्र व्यञ्जनयैव निर्वाहात् ॥
 
अथ शब्दवृत्तिनिरूप्यते-
 
या शब्दमात्रव्यापाररूपिणी शब्दवृत्तिका ।
कैशिक्यादिवारणाय मात्रपदम् ॥
अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा ।
व्यापारो वस्तुधीहेतुर्मुख्यः शब्दगतेऽभिधा ॥
 
-
[^1]एतन्नामकोपनिषन्मृग्या । एतद्वाक्यवृन्दं समुपलभ्यमानोप-
निषत्संग्रहादिपुस्तकेषु नोपलभ्यते । किंतु प्रसिद्धेयमुपनिषत् ।