This page has been fully proofread once and needs a second look.

अथ शब्दार्थस्वरूपे निरूप्येते-
 
अकारादिक्षकारान्तवर्णात्मा शब्द इष्यते ।
स शब्दो द्विविधः प्रोक्तः पदवाक्यविभेदतः ॥
सुप्तिङन्यतरस्यापि प्रकृतिः पदमीरितम् ।
 
अन्यतरग्रहणेन न परस्पराव्याप्तिः ॥
तिङ्सुबन्तोभयपदसमूहो वाक्यमिष्यते ॥
 
समासव्यावृत्त्यर्थमन्तग्रहणम् । तिङन्तसमुदायस्सुबन्तसमु-
दायस्तदुभयसमुदायश्चेति वाक्यं त्रिविधम् । तिङन्तसमुदायो
यथा–पचति भवतीति । पाकानुकूला कृतिरस्तीत्यर्थः । पाको
भवतीति यावत् । सुबन्तसमुदायो यथा–घटः पटश्च जात
इत्यादि । तदुभयसमुदायो यथा–गां विसृजाश्वं बधानेति ।
 
पदन्तु त्रिविधं शक्तलक्षकव्यञ्जकात्मना ।
साक्षात्सङ्केतितार्थं यदभिधत्ते हि वाचकम् ॥
 
अन्यानुसन्धानमन्तरा विवक्षितार्थबोधजनकं पदं शक्तम् ।
लक्षके व्यञ्जके च शक्यार्थानामनुसंधानानन्तरमेव विवक्षितार्थ-
बोधोदयात्तद्वारणायान्तरान्तम् ॥
 
व्यञ्जनालक्षणाभ्यां तद्बोधे व्यञ्जकलक्षके ॥
 
लक्षणया विवक्षितार्थबोधजनकं पदं लक्षकम् । व्यञ्जनया
विवक्षितार्थबोधजनकं पदं व्यञ्जकमित्यर्थः । त्रितयं यथा–