This page has been fully proofread once and needs a second look.

सुधर्मेन्द्रमुपाश्रित्य शोभतां कविता मम ।
सुदृढोपघ्नसम्बद्धा सुदृढं शोभते लता ॥ ५ ॥
 
सत्कवेः काव्यमाश्रित्य नेता कल्पं स जीवति ।
काव्यञ्चापि महानेतृसंसर्गाच्चिरजीवितम् ॥ ६ ॥
 
सत्कवेर्वा<flag>ङ</flag>यादर्शमवलम्ब्य यशोऽमलम् ।
नायकस्य कवेर्वापि चिरं जीवति निश्चलम् ॥ ७ ॥
 
अतोऽहं त्रैलोक्यप्रकटितसुधर्मेन्द्रयतिनो
मुहुः श्रावं श्रावं गुणमणिमनर्घ्यं चिरतरम् ।
यते स्तोतुं कृष्णः कविरहह मुग्धोऽपि बहुधा
प्रबन्धानां कर्ता रघुपतिपदैकोरुशरण: ॥ ८ ॥
 
सारस्याद्वा कवेर्नेतुर्गौरवाद्वा विमत्सरात् ।
सारस्याद्बा दयालुत्वात्स्वीकुर्वन्तु कृतिं बुधाः ॥ ९ ॥
 
आदौ काव्यसामान्यलक्षणम् ।
 
सालङ्कारौ च सगुणौ शब्दार्थौ दोषवर्जितौ ।
काव्याम्नायानुरोधेन निबद्धौ काव्यमिष्यते ॥
 
अत्र दोषपदेन श्रुतिकटुत्वन्यूनोपमादयो ग्राह्याः । तेन न
भारतप्रदिष्वतिव्याप्तिः । शब्दार्थयोरविनाभावात् द्विवचननिर्देशः ।
काव्याम्नायानुरोधेनेति स्वरूपकथनम् ॥