This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
श्री कृष्णावधूतकवीशविरचितः
॥ सुधर्मेन्द्रमहोदयः ॥
 
श्री रामाय नमः पुनः पुनरसौ दद्यात्समुद्यद्धियं
वाणीञ्चामृतधोरणीं गुणलवान् स्तोतुं गुरोः प्रारभे ।
यस्यालं जगति प्रकृष्टयशसां घाटीभिरापाण्डरे
शेकुर्वस्तुविवेचने न कवयः स्तोतुं गुणान् किं पुनः ॥ १ ॥
 
राम त्वत्करुणामबाघसरणां याचेऽद्य पूर्वाधिकां
कस्ते वत्स समागतो हि समयः चिन्ताप्रदस्तादृशः ।
कांश्चित् स्तोतुमहं यते गुणलवान् मन्दस्सुधर्मेन्द्रगान्
इत्याकर्ण्य करं स मूर्ध्नि निदधौ स्तोतुं ततः प्रोत्सहे ॥ २ ॥
 
मोदध्वं कवितालतामृतरसं संसेव्य मे सूरयः
पूर्वेषां विदुषां प्रबन्धरचना किं नास्ति लोकत्रये ।
निस्साराश्रयणा पुरातनकृतिः किं वर्णनीयं परं
सैषा मे सरसाश्रिता खलु यया भद्रा सुधर्मेन्द्रभूः ॥ ३ ॥
 
कैलासीयति भूधरान् सुरगिरौ हर्म्यायति प्रेयसी-
दर्शं पश्यति चन्द्रिकां निजसभाचारं चरत्यम्बरे ।
दिक्कान्तासु दुकूलति स्तनतटीष्वासाम्पटीरायते
नर्नर्ति त्रिदिवे नटीव नितरां कीर्तिस्सुधर्मेन्द्रभू: ॥ ४ ॥