This page has been fully proofread once and needs a second look.

एव रामा मनोरमा । अलघ्वी विशाला उर: स्थली वक्षःस्थानमेव

पुष्पाकरत्वसाम्यात् मानसाम्भोजिनी मानसाख्यसरसी तस्यां मारस्य

मन्मथस्य केली समाघातेन निमित्तेन आगते भोगे प्रकाममत्यन्तमादरे

तद्विषयकेच्छायामुक्तौ <error>सन्नी</error> <fix>सत्रद्धौ</fix> हेम्ना सुवर्णेन आहिताया: निर्मितायाः

अर्चाया: प्रतिमाया: "अर्चा पूजा प्रतिमयोरिति" वैजयन्ती । विभा

मानस्य लावण्यगर्वस्य हारिण्या अपहारिण्या: सुवर्णप्रतिमानुकारिण्या: इति

यावत् । स्ववामाया: निजस्त्रियास्सीतायाः, कुचौ स्तनावित्याख्या अभिधा

ययोस्तौ कुचाख्यौ । त्रियामायां "रात्रौ रात्रित्रियामा क्षणदा क्षपे ' "त्यमरः

। वियुजौ विरहिणी पक्षिणौ चक्रवाकाविति यावत् । तौ हि रात्रौ वियुञ्जाते

। तयोस्समाधिस्समाधानं धर्मो यस्य तत्तथोक्तं तदस्य धर्ममिति ठक्

समाधायकमित्यर्थः । उत्थानमुन्नमनं यस्य स तथोक्तः । सोमस्य

चन्द्रस्यानुजस्सहजो, ग्रावा उपल: कौस्तुभमणिरिति यावत् । स हि

मथनसमये चन्द्रेण सह सम्भूत इति स एव साम्याद्धामाधिपः सूर्यः

तस्यालोकस्य प्रभाया: 'समाजं समेति' सामाजिकः । 'समवायान्

समवेती' ति ठक् । तत्तुल्यस्येति यावत् । आमोदिनो गन्धिलस्य,

वैमानिकानां विमानैश्चरतां देवानां । चरतीति ठक् । इन्द्राणां श्रेष्ठानां,

उचितस्य योग्यस्य, अमानवीयस्य अमानुषस्य, अत एवानुलोमस्य

स्ववैभवानुकूलस्य, अङ्गरागस्य
चन्दनस्य, उरुगन्धः
उत्कृष्टपरिमलस्तस्यातिभारस्य, उपसन्धाने ग्रहणे धोरया गतिचातुर्येण ।

"धोरा तु गतिचातुर्ये" इति शब्दरत्नाकरः । समिन्धानस्य भासमानस्य

वातस्य वायोरनुबन्धेन दिक्षुसम्बन्धेन आर्पितस्सम्पादित आनन्दस्सन्तोष:

सिन्धुरिव तस्मिन्नुन्मज्जन्ति मनानि अत एवान्धानि परवशानि अखिलानां

लालानामाशानां दिशां मुखानि । तेषां सन्तोषासम्भवात्तत्रत्या जना यस्य
 
चन्दनस्य,
 
उरुगन्धः
 
17