This page has been fully proofread once and needs a second look.

वीचि"रित्यमरः । मानं ज्ञानं ददातीति मानदा तस्या उद्यन्त्याः उन्नतायाः,
वलीनां त्रिवलीनां, मालिकाया राजेर्भाभि: कान्तिभिरभिरामे मनोरमे,
अबृहति स्वल्पे, कुक्षिधाम्नि जठरलक्षणाश्रये आवसन् विश्वेषां जगतां
भूमा बाहुल्यं यस्य तं । "बहोर्लोपो भू च बहो"रिति इष्टेमेयम्सुपरतो
भूरादेशः ॥ निजकान्तिपूरशृङ्गारपीयूषपाथोनिधी वीचिकाधियं कुर्वन्तीभिः
त्रिवलीभिर्मञ्जुले स्वल्पेऽपि जठरकुहरे सविलासं
सकलचराचरप्रपञ्चभूमानमावहतीति भगवतोऽतिमाहात्म्यमिति भावः ॥
 
॥ इति त्रिवलीवर्णनम् ॥
 
<bold>* अथ वक्षोवर्णनम् *</bold>
 
उद्यदिति ॥ उद्यत् वक्षसि उद्युक्तं स्थितं ललामं चिन्हं,
श्रीवत्सलक्षणं । "प्रज्ञानञ्चाप्यभिज्ञानं ललामं च ललाम चे" त्यमरः
। तदनुयन्त्योः अनुसरन्त्योः मिलितयोरिति यावत् । तारस्य शुद्धमौक्तिकस्य
"तारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिक" इति विश्व: । दामा माला,
"डाबुभाभ्या"मिति डाप् । 'न पुंसि दामे'त्यमरः । लसन्ती द्योवनीमाला
स्वर्गवनमाला दिव्यवैजयन्ती च । "वनमाला वैजयन्ती"ति शब्दरत्नाकरः
। तयोः । "इष्टकेपीकामालानां चिततूलाभारिष्वि"ति मालाशब्दस्य
ह्रस्वः । हारिणां मनोहराणां, प्रभाणां कान्तीनां, मावो बन्ध: 'मव बन्ध'
इति धातोर्भावे घञ् । तेन किर्मीरा चित्रा "चित्रं किर्मीरकल्माष शबलैताश्च
कर्बुरे" इति अमरः । श्रीवत्सस्य नीलत्वात्तारदामाया धवलत्वात् ।
वैजयन्तीमालिकाया गौरवर्णत्वाच्च तत्प्रभवानामपि कान्तीनां
नीलधवलगौरत्वावश्यंभावात्तत्सम्बन्धे चित्रवर्णा भवतीति भावः । अत