This page has been fully proofread once and needs a second look.

वीचि " "रित्यमरः । मानं ज्ञानं ददातीति मानदा तस्या उद्यन्त्याः उन्नतायाः,

वलीनां त्रिवलीनां, मालिकाया राजेर्भाभि: कान्तिभिरभिरामे मनोरमे,

अबृहति स्वल्पे, कुक्षिधाम्नि जठरलक्षणाश्रये आवसन् विश्वेषां जगतां

भूमा बाहुल्यं यस्य तं । "बहोर्लोपो भू च बहो "रिति इष्टेमेयम्सुपरतो

भूरादेशः ॥ निजकान्तिपूरशृङ्गारपीयूषपाथोनिधी वीचिकाधियं कुर्वन्तीभिः

त्रिवलीभिर्मञ्जुले स्वल्पेऽपि जठरकुहरे
सविलासं
 

सकलचराचरप्रपञ्चभूमानमावहतीति भगवतोऽतिमाहात्म्यमिति भावः ॥
 
9
 

 
॥ इति त्रिवलीवर्णनम् ॥
 

 
<bold>
*
 
अथ वक्षोवर्णनम् *
 
6
 
<bold>
 
उद्यदिति ॥ उद्यत् वक्षसि उद्युक्तं स्थितं ललामं चिन्हं,

श्रीवत्सलक्षणं । "प्रज्ञानञ्चाप्यभिज्ञानं ललामं च ललाम चे" त्यमरः

। तदनुयन्त्योः अनुसरन्त्योः मिलितयोरिति यावत् । तारस्य शुद्धमौक्तिकस्य
'

"
तारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिक" इति विश्व: । दामा माला,
'

"
डावुबुभाभ्या ' "मिति डाप् । 'न पुंसि दामे' त्यमरः । लसन्ती द्योवनीमाला

स्वर्गवनमाला दिव्यवैजयन्ती च । "वनमाला वैजयन्ती "ति शब्दरत्नाकरः

। तयोः । "इष्टकेपीकामालानां चिततूलाभारिष्वि ' "ति मालाशब्दस्य

ह्रस्वः । हारिणां मनोहराणां, प्रभाणां कान्तीनां, मावो बन्ध: 'मव बन्ध'

इति धातोर्भावे घञ् । तेन किर्मीरा चित्रा "चित्रं किर्मीरकल्माष शबलैताश्च

कर्बुरे" इति अमरः । श्रीवत्सस्य नीलत्वात्तारदामाया धवलत्वात् ।

वैजयन्तीमालिकाया गौरवर्णत्वाच्च तत्प्रभवानामपि कान्तीनां

नीलधवलगौरत्वावश्यंभावात्तत्सम्बन्धे चित्रवर्णा भवतीति भावः । अत
 
16