This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
1
 
स्मृतावपुनरावृत्तये नियमितः । यथा - कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं

यायादिति अत्रोच्यते – योगिनः प्रति च स्मर्यते स्मार्ते चैते (ब्र०सू० ४।२।२०-२१ ) ।

योगिनः प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते । स्मार्ते चैते योगसांख्ये

न श्रौते । (ब्र० सू० ४।२।२१ शा० भा०) यथा च अनावृत्तिः शब्दादनावृत्तिः

शब्दात् (ब्र० सू० ४।४।२२) अत्र शा० भा० - नाडीरश्मिसमन्वितेनार्चिरादिपर्वणा

देवयानेन यथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च वै ण्यश्चार्णवौ

ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नैरंमदीयं सरो यस्मिन्नश्वत्थः सोमसवनो

यस्मिन्नपराजिता पूर्ब्रह्मणो यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा

मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते ।

कुतः – तयोर्ध्वमायन्नमृतत्वमेति (छा० ८।६।६ कठ० ६।१६) तेषां न पुनरावृत्तिः

(बृ० ६।२।१५) एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा० ४/१५/६)

ब्रह्मलोकमभिसम्पद्यते (छा० ८/१५/१) न च पुनरावर्तते (छा० ८।१५।१ ) ।

अन्तवत्वेऽपि त्वैश्वर्यस्य यथानावृत्तिस्तथा वर्णितम्- कार्यात्यये तदध्यक्षेण

सहातः परम् (ब्र० सू० ४ । ३ ।१०) इत्यत्र । यथा च सम्यग्दर्शनविध्वस्ततमसां

तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिः । तदाश्रयणेनैव हि सगुण-शरणानामना-

वृत्तिसिद्धिरिति । अनावृत्तिः शब्दादनावृत्तिः शब्दादितिसूत्राभ्यासः (४।४।२२)
 
-
 

 
अनित्यः - , अनित्य
(क) त्रैकालिकबाधरहितो नित्य एतद्विपरीतः अनित्यः सान्तो

वा अनित्य इति शाङ्करवेदान्तिनः । यथा जगदादि अविद्या च ।
 

 
(ख) उत्पत्तिमान् ध्वसंप्रतियोगी चानित्य इति नैयायिकाः । यथा शब्दोऽनित्यः ।

(ग) प्रध्वंसाभावप्रतियोगी । यथा घटोऽनित्यः ।
 

 
अनित्यत्वम् - , अनित्यत्व
(क) प्रतियोगितासम्बन्धेन ध्वंसत्वम् (भू० म०) । ध्वंस-

प्रतियोगित्वमित्यर्थः (त० दी०) । इदं लक्षणं प्रागभावानङ्गीकारपक्षे ध्वंसस्य नित्यत्व-

पक्षेऽपि च सङ्गच्छते ।
 

 
(ख) प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वान्यतरवत्त्वम् (वाक्य० १) (त०

प्र० १ ) यथा ध्वंसप्रागभावयोर्घटपटादेश्चानित्यत्वम् ।
 
-
 

 
अनिर्वचनीयम् - , अनिर्वचनीय
निःशेषेण वक्तुमनर्हम् अनिर्वचनीयम् । इत्थमेव वक्तुं न

शक्यते तदनिर्वचनीयमुच्यत इदमेव अनिर्वाच्यम् । यथा अविद्या । अविद्यासाचिव्येन

ब्रह्म जगद्द्रूपेण विवर्तते । अविद्यनाम मिथ्याप्रत्ययः अध्यासो वा । इयं चाविद्या सत्त्वेन