2023-03-12 05:00:14 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
-
अनभिष्वङ्गः
यथा -
जागतिकवस्तुनि तादाम्याभिमानराहित्यम् ।
अनभिष्वङ्गोऽभिष्वङ्गाभावः । अभिष्वङ्गोनाम आसक्तिविशेष एवानन्यात्मभावनालक्षणः ।
(गी० १३।९ शा० भा० ) । यथा च अभिष्वङ्गस्तेन तादात्याभिमानोऽयमेवाहमिति
च (नी० क०) । यथा च अभिष्वङ्गस्त्वमेवायमित्यनन्यत्वभावनया प्रीत्यतिशय: । ( म०
सू०) अभिष्वङ्गः अन्यस्मिन् पुत्रादौ सुखिनि दुःखिनि वा जीवति मृते वाहमेव सुखी
दुःखी च जीवामि मरिष्यामि इति चेति (भा० क० ) । यथा च - अनभिष्वङ्गः पुत्रादीनां
सुखे दुःखे वाहमेव सुखी दुःखी चेत्यध्यासातिरेकाभावः (तत्रैव श्रीधरी ) ।
अनादिता - अनादिकालेन सह अन्यतमयोगनियमः । यथा - तदाकृत्युप-
रक्तानां व्यक्तीनामेकया विना । अनादिकाला वृत्तिर्या सा कार्यानादिता मता ।
मिथ्याकारत्वतत्संस्कारत्वजात्यालिङ्गितव्यक्तीनां मध्येऽन्यतमव्यक्त्या विना यदनादि-
कालस्यावर्तनमन्यतमयोगनियम इति यावत् । तासामनादित्वम् । अत्र निमित्तनैमित्ति-
नोरनादित्वमुक्तम् (ब्र० सू० अध्यासभाष्ये वे० क० त० )
-
अनानांत्वम् – एकम्, अद्वितीयम् ।
एकम् अद्वितीयम् । यथा- दुर्दशमतिगम्भीरमजं साम्यं
विशारदम् । बुद्धवा पदमनानात्वं नमस्कुर्मो यथाबलम् (मा० उप० का० ४।१००)।
अत्र शाङ्करभाष्ये - ईदृक्पदं नानात्ववर्जितं बुद्ध्या अवगम्य ।
अनावृत्तिः - पौनःपुन्येन आवर्तनम् अर्थात् जन्ममृत्युरूपेण पुनः पुनरागमनम्
आवृत्तिस्तविपरीता अनावृत्तिः । ब्रह्मज्ञानाद् ब्रह्म सम्पद्यते स्वस्वरूपमवगम्यते । न
च पुनरावर्तते । तच्च मोक्ष इत्यभिधीयते । विद्याफलमेतत् । ब्रह्मज्ञानेनैतद्भवति ।
उत्तरायणस्यैषा गतिस्तथा मरणार्थं भीष्मादीनामुत्तरायणस्य प्रतीक्षादिकथन-
मुत्तरायणादीनां प्राशस्त्यवर्णनार्थम् । यथा - अत एव चोदीक्षानुपपत्तेरपाक्षिक-
फलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योर्दक्षिणायनेऽपि म्रियमाणो विद्वानाप्नोत्येव
विद्याफलम् । उत्तरायणमरणप्राशस्त्यप्रसिद्धेर्भीष्मस्य
च प्रतीक्षादर्शनात् ।
आपूर्णमाणपक्षाद्यान् षडुद्ड्डेति मासांस्तान् छा० ४।१५/५ इति च श्रुतेरपेक्षितव्य-
मुत्तरायणमितीमामाशङ्कामनेन सूत्रेणापनुदति । प्राशस्त्यप्रसिद्धिरविद्वद्विषया । भीष्मस्य
प्रतिपालनमाचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च ।
श्रुतेस्त्वर्थं
वक्ष्यति आतिवाहिकस्तल्लिङ्गात् ब्र० सू० ४।३।४ इति
यथा च - यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं
वक्ष्यामि भरतर्षभ गी० ८।२३ इति कालप्राधान्येनोपक्रम्य अहरादिकालविशेषः