This page has not been fully proofread.

....
 
( स० द० सं० शां० )
 
द्वयम् - अर्थात् अर्थाध्यासः ज्ञानाध्यासश्च । यथा च ब्र० सू० उपो०
रत्नप्रभाटीकायामुक्तम्-अवभासनम् अवभासः । यथा शुक्तिरजतादिविषयकवृत्तिज्ञानम् ।
तथा अवभास्यते यत् – यथा शुक्तिरजादि । प्रथमव्युत्पत्तौ ज्ञानाध्यासः द्वितीयव्युत्पत्तौ
अर्थाध्यासः । अध्यासो नाम अधिष्ठानविषयसत्ताकोऽवभासः । अथवा तदभाववति
तप्रकारकोऽवभासः । अत एव चोक्तम्- अध्यासो नाम अतस्मिंस्तबुद्धिरित्यवोचाम ।
....एवमनादिरनन्तो नैसर्गिकोऽध्यासो मिध्याप्रत्ययरूपः । कर्तृत्वभोक्तृत्वप्रवर्तकः
सर्वलोकप्रत्यक्षः । (ब्र० सू० उपो० शा० भा०) अध्यासजनने कारणत्रयम्-
१. प्रमेयदोषः २. प्रमातृदोषः ३. प्रमाणदोषश्चेति । एवमेव स्वप्नाध्यासेऽपि ।
कार्यकारणभावरूपेणापि अविद्याध्यासयोरैकरूप्यम् । यथा- एवं स्वप्नाध्यासस्यापि
.एकाज्ञानकार्यत्वोक्तेश्च.... (सिं० ले० सं०) । यथा च - अध्यास एव सर्वानर्थहेतुः
स एवाविधा । (ब्र० सू० उपो भाम०) एवं च वर्णाध्यासः अवस्थाध्यासः
आश्रमाध्यासः वयोऽध्यासः इत्यदीनि जायन्ते (ब्र० स्० उपो० शा० भा०, भाम०) ।
 
-
 
....
 
शाङ्करवेदान्तकोशः
 
प्रमाणदोषसंस्कारजन्मार्थस्य परात्मता ।
 
तद्धीचाध्यास इति हि द्वयमिष्टं मनषिमिः ॥
 
-
 
-
 
-
 
अनन्तरम् - जात्यन्तरव्यवधानशून्यम् । यथा - नास्यान्तरं जात्यन्तरं अन्तराले
विद्यत इत्यनन्तरम् (ब्र० सू० १/१/४ वे० क० त० ) । ततः परम्, तदव्यवहि-
तोत्तरत्वं च ।
 
-
 
-
 
अनन्यशेषः - न अन्यशेषः अर्थात् प्रधानभूतो मुख्यः । यथा- उत्पाद्यादि-
'चतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः । (ब्र० सू० १/१/४ शा० भा०)
"अतश्च चतुर्विधद्रव्यविलक्षणो यदन्यशेषः (तत्रैव भा०) ।
 
-
 
-
 
अनपरम् कारणरहितम् । यथा - तथा नास्यापरं कार्यं वास्तवं विद्यते
इत्यनपरम्, अकारणमिति यावत् (ब्र० सू० १/१/४ वे० क० त०) ।
 
-
 
अनपेक्षः - अपेक्षारहितो निःस्पृहः । यथा - देहेन्द्रियविषयसम्बन्धादिष्वपेक्षा-
विषयेषु अनपेक्षो निःस्पृहः (गी० १२ / १६ शा० भा० ) । यथा च - किं च निरपेक्षः
सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेषु अपि निःस्पृहः (तत्रैव म० सू०) । यथा च -
अनपेक्षो देहेन्द्रियविषयसम्बन्धेषु सर्वेष्वपेक्षणीयेषु यदृच्छोपलब्धेष्वपेक्षाशून्यो निःस्पृहः
(तत्रैव भा० क०) । अनपेक्षो यदृच्छोपस्थितेऽप्यर्थे निःस्पृहः (तत्रैव श्रीधरी) ।
 
-