This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१०७
 
समुद्धरन् उन्मज्जयन् सन्निति भावः । नतभ्रुवो रुक्मिण्या: । नितम्ब एव चक्रे
कुलालचक्रे । अभ्रमयत् भ्रामयामास । बतेति कष्टार्थे । महानयं प्रमाद इति भावः ।
क्वचित्प्रमादाज्जले निपतितस्य भारवशादधोनिमग्नस्या वशादास्यनासिकादिद्वारा
उच्छ्रासनिपीतसलिलोच्छूनस्योज्जीवनाय पीत- सलिलोद्वमनार्थे कुलालचक्रे भ्रम-
णस्य लोकसिद्धत्वादिति भावः । हरिः चिरं नाभीमनुध्याय ततो नितम्ब बिम्बमन्व-
चिन्तयदिति भावः । अत्र मनःकर्तृ- कायां नाभीकूपचिरनिध्यानानन्तरभाविन्यां
नितम्बपरिवर्तनक्रियायां नाभि- कूप निमग्नमनः परिपीतसलिलोद्वमनार्थकमदनकर्तृक
कुलालचक्रभ्रमण- क्रियातादात्म्यसंभावना क्रियास्वरूपोत्प्रेक्षा सावयवरूपकानु-
प्राणितेति सङ्करः । नाभेर्ह्रदत्वरूपणेन तत्पतितमग्नस्य चेतसश्चेतनपुरुषत्वारोपण-
स्य मदने तत्संरक्षकपुरुषत्वरूपणस्य गम्यतया एकदेशविवर्तिसावयवरूपक- मेव
प्राधान्येन प्रतीयते । उत्प्रेक्षा तु व्यङ्ग्येति तत्त्वम् ॥ २१ ॥
 

 
नितम्बचक्रं ' [^1]निरवद्यमङ्गनामणेर्मुकुन्दो मनसास्पृशग्रद्यदा ।

निरास्थदास्थां निजचक्रके तदा ततो विधत्तेऽनुशयस्थितिं नु तत् ॥
 
(
 
२२॥
 
नितम्बेति – मुकुन्दः कृष्णः । अङ्गनामणे: रुक्मिण्या: । निरवद्यं
निर्दोषम् । नितम्बचक्रं श्रोणीमण्डलं नितम्बमेव चक्रं सुदर्शनं चक्रायुधमित्यर्थः । न

पुनश्चक्रतुल्यं नितम्बमित्युपमितसमासः । निरवद्यमिति धर्मप्रतिपादनात्, "उपमितं
व्याघ्रादिभिः सामान्याप्रयोगे" इति सामान्यधर्माप्रयोग एवोपमित- समासविधानात् ।
यदा यस्मिन् काले प्राथमिकरुक्मिणीवृत्तान्तश्रवणसमय इत्यर्थः । मनसा चित्तेन ।
अस्पृशत् पस्पर्श अचिन्तयदित्यर्थः । तदा तस्मिन् काले तदारभ्येत्यर्थः ।
निजचक्रके स्वीयचक्रायुधे । आस्थां अभि- लाषम् । निरास्थत् पर्यत्यजत् । निपूर्वात्
"असु क्षेपणे" इति धातोः परस्मै- पदे लङ् । ततोऽपि नितम्बचक्रस्यात्यन्तमनोहर-
तया तल्लाभसंभावना- मात्रेण ततोऽल्पतया स्वचक्रे उपेक्षामकरोदिति भावः । अमुमर्
थेहेतूपन्यास पूर्वे साधयति । ततो नु तस्मात्कारणात्खलु उपेक्षाकरणेन निमित्तेन

किलेत्यर्थः । तत् तदीयं चक्रायुधम् । अनुशयं पाणौ । "पञ्चशाखः शयः पाणिः
 
.7%
 
"
 
 
 
[^
1] G. नितम्बबिम्बम्.