This page has not been fully proofread.

द्वितीयस्सर्गः
 
१०७
 
समुद्धरन् उन्मज्जयन् सन्निति भावः । नतभ्रुवो रुक्मिण्या: । नितम्ब एव चक्रे
कुलालचक्रे । अभ्रमयत् भ्रामयामास । बतेति कष्टार्थे । महानयं प्रमाद इति भावः ।
क्वचित्प्रमादाज्जले निपतितस्य भारवशादधोनिमग्नस्यावशादास्यनासिकादिद्वारा
उच्छ्रासनिपीतसलिलोच्छूनस्योज्जीवनाय पीतसलिलोद्वमनार्थ कुलालचक्रे भ्रम-
णस्य लोकसिद्धत्वादिति भावः । हरिः चिरं नाभीमनुध्याय ततो नितम्ब बिम्बमन्व-
चिन्तयदिति भावः । अत्र मनःकर्तृकायां नाभीकूपचिरनिध्यानानन्तरभाविन्यां
नितम्बपरिवर्तनक्रियायां नाभिकूप निमग्नमनः परिपीतसलिलोद्वमनार्थकमदनकर्तृक
कुलालचऋभ्रमणक्रियातादात्म्यसंभावना क्रियास्वरूपोत्प्रेक्षा सावयवरूपकानु-
प्राणितेति सङ्करः । नाभेर्हदत्वरूपणेन तत्पतितमग्नस्य चेतसश्चेतनपुरुषत्वारोपण-
स्य मदने तत्संरक्षकपुरुषत्वरूपणस्य गम्यतया एकदेशविवर्तिसावयवरूपकमेव
प्राधान्येन प्रतीयते । उत्प्रेक्षा तु व्यङ्गयेति तत्त्वम् ॥ २१ ॥
 
नितम्बचक्रं 'निरवद्यमङ्गनामणेर्मुकुन्दो मनसास्पृशग्रदा ।
निरास्थदास्थां निजचक्रके तदा ततो विधत्तेऽनुशयस्थितिं नु तत् ॥
 
(
 
नितम्बेति – मुकुन्दः कृष्णः । अङ्गनामणे: रुक्मिण्या: । निरवद्यं
निर्दोषम् । नितम्बचक्रं श्रोणीमण्डलं नितम्बमेव चक्रं सुदर्शनं चक्रायुधमित्यर्थः । न
पुनश्चऋतुल्यं नितम्बमित्युपमितसमासः । निरवद्यमिति धर्मप्रतिपादनात्, "उपमितं
व्याघ्रादिभिः सामान्याप्रयोगे" इति सामान्यधर्माप्रयोग एवोपमितसमासविधानात् ।
यदा यस्मिन् काले प्राथमिकरुक्मिणीवृत्तान्तश्रवणसमय इत्यर्थः । मनसा चित्तेन ।
अस्पृशत् पस्पर्श अचिन्तयदित्यर्थः । तदा तस्मिन् काले तदारभ्येत्यर्थः ।
निजचक्रके स्वीयचक्रायुधे । आस्थां अभिलाषम् । निरास्थत् पर्यत्यजत् । निपूर्वात्
"असु क्षेपणे" इति धातोः परस्मैपदे लङ् । ततोऽपि नितम्बचक्रस्यात्यन्तमनोहर-
तया तल्लाभसंभावनामात्रेण ततोऽल्पतया स्वचक्रे उपेक्षामकरोदिति भावः । अमुमर्थ
हेतूपन्यासपूर्व साधयति । ततो नु तस्मात्कारणात्खलु उपेक्षाकरणेन निमित्तेन
किलेत्यर्थः । तत् तदीयं चक्रायुधम् । अनुशयं पाणौ । "पञ्चशाखः शयः पाणिः
 
.7%
 
1 G. नितम्बबिम्बम्.