This page has been fully proofread once and needs a second look.

१०६
 
रुक्मिणीकल्याणे सव्याख्याने
 
सुखं अप्रयासम् । विशन् प्रविशन् सन् । अङ्गनामणे: रुक्मिण्याः । नीवीपदं जघन-
देशं मूलधननिक्षेपस्थानं च कोशागारमिति यावत् । "नीवीपरिपणं मूलधनम् "
इत्यमरः । अवाप प्राप । क्रमेण नीवीस्थानमनुध्यातवानिति भावः । समस्तवस्तुविषयं
सावयवरूपकमलङ्कारः । स च श्लेषापह्हूनुतिभ्यामुत्थापित इति सङ्करः ॥ १९ ॥
 

 
उपेत्य रोमालिझराभिमुख्यभागुरोजमस्याः किल नाभिकूपतः ।

निरन्तरे चन्दनकर्दमे चिरं न्यलीयतान्तर्मधुजिन्मनोझषः ॥ २० ॥
 

 
उपेत्येति - मधुजित: कृष्णस्य मनश्चित्तमेव झषः मत्स्य: । "पृथुरोमा
झषो मत्स्य : " इत्यमरः । अस्याः रुक्मिण्याः । नाभिरेव कूपः तस्मात् । रोमालि-

झरस्य रोमराजिरूपप्रवाहस्य गिरिनिर्झरस्येति भावः । आभिमुख्यं प्रतीप- गमनं
भजतीति तादृशस्सन् । मत्स्यस्य प्रवाहाभिमुखोद्गमनस्य प्रसिद्धतया- यमपि झषः
स्तनगिरितटादधःप्रसृतरोमालिक पटनिर्झरधारामवलम्च्यो- द्गच्छन् सन्निति भावः ।
उरोजं स्तनम् । उपेत्य प्राप्य । निरन्तरे निबिडे । चन्दनकर्दमे पाटीरपङ्के स्तन
तटचर्चित इति भावः । अन्तः अभ्यन्तरप्रदेशे । चिरं बहुकालम् । न्यलीयत तिरो-
हितोऽभूत् । तत्र स्वच्छन्दसञ्चारक्षम- सलिलाभावात् तापभीत्या तत्रत्यचन्दनपङ्के
तिरोदधे किमिति भावः । साव- यवरूपकमलङ्कारः । निलयनस्य कण्ठोक्त्या भगव-
न्मनसोऽन्यत्र स्फुरणा- भावरूपायां शून्यतायां तत्र संभावितचन्दनकर्दमतिरोभवन-
तादात्म्य- संभावना क्रियास्वरूपोत्प्रेक्षा अनुक्तविषया तंत्र रूपकमुपकरोति ।

सा च व्यञ्जकाभावात् गम्येति केचित् ॥ २० ॥
 

 
कुचस्थलात्कुङ्कुमपङ्कपिञ्छिलान्निपत्य मग्नं बत नाभिकाहूह्रदे ।

मनो मुरारेर्मदन स्समुद्धरनितम्बचक्रेऽभ्रमयन्नतभ्रुवः ॥ २१ ॥
 
-
 

 
कुचेति – मदनः स्मरः । कुङ्कुमपङ्कःकैः काश्मीरद्रवैः पिञ्छिलात् व्याप्तात्,

कर्दमिततया पदन्यासमात्रेण प्रस्खलनस्वरूपयोग्यादिति भावः । कुच- स्थलात्
स्तनतटात् । निपत्य प्रस्कन्द्य पतित्वेत्यर्थः । नाभिका नाभिरेव हृह्रदः अगाधजला-
शयः। "अगाधजलो ह्रदः" इत्यमरः । मग्नं निमज्जितम् । मङ्क्त्वा पीतोदकमुच्छून-
मन्यत्र चलितुमक्षमतया तत्रैव परिलुठदिति भावः । मुरारे: कृष्णस्य । मनः चित्तम् ।