This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१०५
 
यत्रोपलब्धिस्तस्यापि दण्डापातभिया स्वसदनानयनेन स्वापराधभिया चोर-
शिक्षयदित्यर्थः । अत्र मनो नयति सतीति सतिसप्तम्या मदनकृतशिक्षा- रूप-
खड्गग्रहणं प्रति कृष्णकृतरोमराजिकामनोनयनरूपस्यापराधविधया हेतुत्वप्रतीत्या
वस्तुतो रोमराज्यपहाराभावेनासिद्धविषया हेतूत्प्रेक्षा व्यञ्जका भावात् गम्या ।
वृत्त्यनुप्रासेन संसृष्टिः ॥ १७ ॥
 

 
नितम्बिनीतुङ्गकुचाचलाञ्चलान्निपात्य [^1]नाभीकपटावटे स्मरः ।

गृहीतरोमावलिशृङ्खलो दृढं बबन्ध '[^2]तन्मानसगन्धसिन्धुरम् ॥ १८ ॥
 
J
 

 
नितम्बिनीति – स्मरो मदनः । तस्य कृष्णस्य मानसं मन एव गन्धसिन्धुरं

मत्तमतङ्गजम् । नितम्बिन्याः रुक्मिण्याः तुङ्गात् कुचाचलाञ्चलात् कुच- गिरिशृङ्गात् ।
नाभिरिति कपटो व्याजो यस्य तादृशे अवटे श्वभ्रे । "गर्तावटौ भुवि श्वभ्रः "
इत्यमरः । निपात्य पातयित्वा । अथ गृहीता उपसंगृहीता रोमावलिः रोमराजिरेव
शृङ्खला निगलादिरूपा आयसी रज्जुः येन तादृश- स्सन् । दृढं गाढम् । बबन्ध
निजग्राह । "बन्ध बन्धने" इति धातोः परस्मैपदे लिट् । यथा लोके गजग्राही पुरुष:
क्वचन पर्वतप्रान्ते महान्तं गर्तमुत्पाद्या- च्छाद्य तत्र सल्लकी क्षुपिप्पलादीनि प्ररोप्य
तद्ग्रासलोभेन गिरिकटकात् अत्र पतितं तत उत्तरितुमक्षमं चिरोपोषितं नष्टसत्त्वं
च सुग्रहं निगलैराबध्यानीय स्ववशीकरोति एवं मदनोऽप्यकरोत् किमिति भावः ।
हरिः नाभीदेशमनु स्मृत्य ततः चिरतरमनन्यचित्तोऽभूदिति भावः । सावयव -
रूपकमलङ्कारः । कैतवापह्हूनुतिगर्भ इति सङ्करः ॥ १८ ॥
 

 
दूढरोमालिनिभोरगाननः सुखं विशन्नाभिमृषासुरङ्गया ।

तदीयचेतोमिषतस्कराग्रणीरवाप नीवीपदमङ्गनामणेः ॥ १९ ॥
 
-
 

 
उदूढेति – उदूढ: परिघृधृत: चिन्तित: रोमालि: रोमावलिरिति निभः
कपटो यस्य तादृशं उरगाननं भित्त्यादौ सुरङ्गादिविधानसाधनं फणिफणावदा-

कुञ्चिताप्ग्रमायसमायुधं येन तादृशः । तदीयं कृष्णसम्बन्धि चेतश्चित्तमिति मिषः
छद्म यस्य तादृशस्तस्कराग्रणी: चोरवरिष्ठः । नाभिमृषासुरङ्गया नाभीकपटसुषिरेण ।
2 G. तां मानस-

 
 
[^]
1 G. नाना-
14
 

[^2] G. तां मानस-