2023-04-06 02:50:58 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
१०५
यत्रोपलब्धिस्तस्यापि दण्डापातभिया स्वसदनानयनेन स्वापराधभिया चोरम-
शिक्षयदित्यर्थः । अत्र मनो नयति सतीति सतिसप्तम्या मदनकृतशिक्षारूप-
खड्गग्रहणं प्रति कृष्णकृतरोमराजिकामनोनयनरूपस्यापराधविधया हेतुत्वप्रतीत्या
वस्तुतो रोमराज्यपहाराभावेनासिद्धविषया हेतूत्प्रेक्षा व्यञ्जकाभावात् गम्या ।
वृत्त्यनुप्रासेन संसृष्टिः ॥ १७ ॥
नितम्बिनीतुङ्गकुचाचलाञ्चलान्निपात्य नाभीकपटावटे स्मरः ।
गृहीतरोमावलिशृङ्खलो दृढं बबन्ध 'तन्मानसगन्धसिन्धुरम् ॥ १८ ॥
J
नितम्बिनीति – स्मरो मदनः । तस्य कृष्णस्य मानसं मन एव गन्धसिन्धुरं
मत्तमतङ्गजम् । नितम्बिन्याः रुक्मिण्याः तुङ्गात् कुचाचलाञ्चलात् कुचगिरिशृङ्गात् ।
नाभिरिति कपटो व्याजो यस्य तादृशे अवटे श्वभ्रे । "गर्तावटौ भुवि श्वभ्रः "
इत्यमरः । निपात्य पातयित्वा । अथ गृहीता उपसंगृहीता रोमावलिः रोमराजिरेव
शृङ्खला निगलादिरूपा आयसी रज्जुः येन तादृशस्सन् । दृढं गाढम् । बबन्ध
निजग्राह । "बन्ध बन्धने" इति धातोः परस्मैपदे लिट् । यथा लोके गजग्राही पुरुष:
क्वचन पर्वतप्रान्ते महान्तं गर्तमुत्पाद्याच्छाद्य तत्र सल्लकी क्षुपिप्पलादीनि प्ररोप्य
तद्ग्रासलोभेन गिरिकटकात् अत्र पतितं तत उत्तरितुमक्षमं चिरोपोषितं नष्टसत्त्वं
च सुग्रहं निगलैराबध्यानीय स्ववशीकरोति एवं मदनोऽप्यकरोत् किमिति भावः ।
हरिः नाभीदेशमनुस्मृत्य ततः चिरतरमनन्यचित्तोऽभूदिति भावः । सावयव -
रूपकमलङ्कारः । कैतवापह्नुतिगर्भ इति सङ्करः ॥ १८ ॥
उढरोमालिनिभोरगाननः सुखं विशन्नाभिमृषासुरङ्गया ।
तदीयचेतोमिषतस्कराग्रणीरवाप नीवीपदमङ्गनामणेः ॥ १९ ॥
-
उदूढेति – उदूढ: परिघृत: चिन्तित: रोमालि: रोमावलिरिति निभः
कपटो यस्य तादृशं उरगाननं भित्त्यादौ सुरङ्गादिविधानसाधनं फणिफणावदा-
कुञ्चिताप्रमायसमायुधं येन तादृशः । तदीयं कृष्णसम्बन्धि चेतश्चित्तमिति मिषः
छद्म यस्य तादृशस्तस्कराग्रणी: चोरवरिष्ठः । नाभिमृषासुरङ्गया नाभीकपटसुषिरेण ।
2 G. तां मानस-
1 G. नाना-
14