2023-12-26 05:51:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
पदे नित्यानित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विव-

१ क्षामपेक्षते ॥ इति ।
 

 
<
सकर्मकः- >
( धातुः ) [क ] आश्रयानवच्छिन्न फलावच्छिन्नव्यापार-

" बोधकः । यथा चैत्रो ग्रामं गच्छतीत्यादौ संयोगानुकूलव्यापारबोधको
 

'गम्धातुः सकर्मकः (ग० व्यु० का० २) (बै० सा० पृ० ६०-६१ ) ।
·

अत्र अग्नौ जुहोति इत्यादौ अभ्यादिनिष्ठफलं गृहीत्वा धातोः सकर्मकत्व-

वारणाय आश्रयानवच्छिन्न इति फलविशेषणम् । परे तु धातोः फलं
"

व्यापारश्च द्वयमर्थ इति धातोः स्वार्थफलावच्छिन्न स्वार्थक्रियान्वयबोधकत्वं

सकर्मकत्वम् । जानाति इत्यादौ सकर्मकत्वव्यवहारो भाक्तः इत्याहुः ।

जानात्यादीनां घातूनां तु नामार्थान्वितोदेश्यत्वातिरिक्तविषयत्वरूप-

विभत्तयर्थान्वय्यर्थकत्वात्मकं गौणं सकर्मकत्वम् इति ज्ञेयम् ( का०

व्या० पृ० ३ ) । प्राञ्चस्तु सर्वत्र क्रियामात्रं धात्वर्थः । द्वितीया-

साकाङ्क्षतुमन्तधातुत्वप्रयुक्त एव च धातूनां सकर्मकस्वव्यपदेशः । न तु

फलावच्छिन्न क्रियावाचित्वप्रयुक्तः । ज्ञाप्रभृतावव्याप्तत्वात् इत्याहुः (श०

प्र० श्लो० ७३ पृ० ९३ ) ( त० प्र० ख० ४ पृ० ८३ ) ।

अत्रायं विशेषः । वृक्षात्पर्ण पततीत्यादावपि अधःसंयोगावच्छिन्नस्पन्दस्य

पतधात्वर्थत्वेन धात्वर्थतावच्छेदक संयोगात्मक फलशालिनो भूतलादेरपि

कर्मत्व विवक्षायां वृक्षात्पर्ण भूमितलं पतति इति प्रयोग इष्ट एव । अत

एवं द्वितीया श्रितातीतपतित ० ( पाणि० २।१।२४) इत्यादिसूत्रे पतित-

शब्दप्रयोगे द्वितीयासमासविधानम् तदुदाहरणं च नरकं पतितः नरक-

पतितः इति साधु संगच्छते । परे तु यदि च तत्र सकर्मकत्व व्यवहारो
 
Pos
 

नेष्ट: तदा कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधकस्यैव धातोः सकर्म-
am
 
Po
 

कत्वम् । यथा गम्यादेः । न तु पतेः । अधःसंयोगरूपफलस्य पर्णे

कर्तरि एवान्वितत्वात् । अधः इत्यस्य संबन्धिसाकाङ्क्षता संघन्धिस्वेन

का० २)। [ख ] फलान्वितव्यापारबोधकः इति प्राञ्चो नैयायिका,

पर्णस्यैवान्वयात् इत्याहु: ( का० व्या० पृ० ४ ) (ग० व्यु०

आहुः । [ग] शाब्दिकास्तु व्यापारानधिकरणवृत्तिफलबोधको धातुः
 
V...