This page has not been fully proofread.

न्यायकोशः ।
 
समवायेन वा घटो नास्ति इति प्रतीतेः । इत्थं
•ण्डोपाधिरित्याहुः ( म० प्र० १२ ) ( ल०
२।५५ ) ।
 
४५
 
चान्योन्याभावत्वमख-
ब० ) ( ग० सि०
 
अन्योन्याश्रयः - तर्कविशेषः । अयमितरेतराश्रयशब्देन सर्वदर्शनसंग्रहे अक्ष-
पाददर्शने उक्तः ( सर्वद० पृ० २३९) । अत्र अन्योन्यपदस्य तज्ज्ञाने
तदुत्पत्तौ तत्स्थितौ च लक्षणा । तदाश्रयोन्योन्याश्रय इति त्रितयसा-
धारणो विग्रहः । एवं चान्योन्य संबन्धिनो ज्ञानोत्पत्तिस्थित्येतदन्य-
तमस्याश्रय इत्यर्थः ( वाच० ) । स च स्वापेक्षापेक्षितत्वनिमित्तकोनिष्ट-
प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्र ज्ञप्तौ
यथा घटोयं यद्येतद्धटज्ञानजन्यज्ञानविषयः स्यात् तदैतद्धटभिन्नः स्या-
दिति । तत्र स्वज्ञानस्य स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत । खापेक्षापेक्षितज्ञान-
त्वात् स्वापेक्षितघटज्ञानविषयस्य तजनकज्ञान विषयाद्भेदरूपमनिष्टं च प्रस-
ज्येत । अतो घटस्य घटभेदप्रसङ्गोनिष्टः । उत्पत्तौ यथा घटोयं यद्येतद्घट-
जन्यः स्यात् तदैतद्घटानधिकरणक्षणोत्तरवर्ती न स्यादित्यादि । एतद्धट-
स्योत्पत्तौ एतद्घटसापेक्षत्वे कारणस्य कार्याद्भेदनियततया एतद्घटस्य एत-
द्घटभेदरूपोनिष्टः प्रसङ्गः । स्थितौ यथा घटोयं यद्येतद्धटवृत्तिः स्यात्तदा
तथात्वेनोपलभ्येत । न च तथोपलभ्यते । तथात्वे च घटस्य घटवृत्ति-
त्वापत्तिरनिष्टा प्रसज्येतेति । एतेषु ज्ञप्तिविषयतयैव प्रायशोनिष्टप्रसङ्गः
। सर्वत्र दृश्यते । तन्मूलकमेव स्वग्रह सापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र
.. व्यवयिते । अत एव परस्परज्ञानसापेक्षज्ञानाश्रयोन्योन्याश्रय इति
स्मार्तेरुक्तम् (वाच० ) ।
 
अन्वयः - १ साध्यम् । यथा अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यति-
रेकि इत्यादौ ( त० सं० ) । २ अन्वयव्याप्तिः (वाक्य० ) । यथा यत्र
यत्र धूमस्तनाग्निः इति साहचर्यनियमः ( त० सं० ) । यथा वा हेतु-
• व्यापकसाध्यसामानाधिकरण्यम् ( न्या० बो० १५) । ३ कोटिद्वयसह-
चरितत्वज्ञानम् (ग० सं० २१) । यथा धूमवान्वहेरित्यादौ अयं धूम-
धूमाभावसमानाधिकरणवह्निमान् इति (भ्रमात्मकं ) ज्ञानम् । इदं ज्ञानं