This page has not been fully proofread.

९२३
 
न्यायकोशः ।
 
संभवो
 
खार्यो द्रोणाढकप्रस्थाद्यवगमः । स चानुमानमेव । खारीत्वं हि द्रोणाय-
विनाभूतं प्रतीतं खार्या द्रोणादिसत्त्वमवगमयति इत्यनुमानान्तर्गततया
प्रमाणान्तरत्वं दूषितम् । तथा हि खारीत्वं खारीपरिमाणम् । महापरिमाणे
स्वावान्तरपरिमाणसमावेशोनुभवसिद्धः । तथा च खारीपरिमाणं द्रोणादि-
परिमाणव्यापकम् इति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनुमानेनैव
• गतार्थता ( तत्त्वकौमुदी ० ) ( वाच० ) इति । [घ ] वेदान्तिनस्तु
अल्पप्रमासाधनं बहुलज्ञानम् । यथा शतमस्यास्ति इति ज्ञाने पञ्चा
शज्ज्ञानम् इत्याहुः ( प्र० च० परि० १ पृ० ४४) ।
द्विधा संभावनात्मकः निर्णयात्मकश्चेति । तत्रादिमो न प्रमाणम् ।
अनिश्चायकत्वात् । यथा ब्राह्मणेषु चतुर्दशविद्याभिज्ञत्वं संभवति इति ।
द्वितीयस्तु शते पञ्चाशत् इति ( सि० च० ) । अत्र शतवान् इत्युक्ते
पञ्चाशद्वान् इति ज्ञानं संभवति । तस्यानुमानेनैव निर्वाहात् । शतस्य
पञ्चाशयाप्यत्वात् इति भावः ( नील० पृ० ३४ ) । अत्रायं प्रयोगः
शतं पञ्चाशद्वत् तद्घटितत्वात् (त० व० पृ० १०० ) इति । देवदत्तः
पञ्चाशद्वान् शतवत्त्वात् यथाहम् इति च । २ उत्पत्तिः । ३ आधेय
स्याधारे समावेशनयोग्यत्वरूपो व्यापारः । ४ उत्कटकोटिकसंदेहः
(गदा० ) । ५ संकेतः । ६ अपाय: इत्यजय आह । ७ हेतुः (वाच ० ) ।
संभावना -१ [क] उत्कटैकतरकोटिकसंशयः (त० प्र० ४ पृ० ६९)
( नील० ४ पृ० ३१ ) ( त० व० ) । यथा गच्छ गच्छसि चेत्कान्त
पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो
भवान् ॥ इत्यादौ मरणसंभावना ( नील० ४ पृ० ३०) । अत्र
औरक व्यं च विषयताविशेषः (नील० ४ पृ० ३१) (ग० प्र०) ।
[ख] वैयाकरणास्तु क्रियासु योग्यताध्यवसाय: ( लिडर्थविशेषः ) ।
यथा सर्पिषोपि स्यात् इत्यादौ लिङाद्यर्थ इत्याहुः । [ग] माध्ववेदा-
●न्तिनोप्याः बाह्यालीप्रदेशेषु पुरुषेणानेन भवितव्यम् इत्यूहापरनामक-
संभावनाज्ञानम्
 
अन्यतरकोटिप्रापकप्राचुर्यनिमित्तोन्यतरकोटिप्रधानकः
 
संशय एव ( प्र० प० पृ० ५) इति । २ आलंकारिकाश्च अर्था-
लंकार विशेष
 
इत्याहुः ।
 
-