This page has not been fully proofread.

न्यायकोशः ।
 
९२१
 
-
 
वृत्तिनियामकः वृत्त्यनियामकश्चेति । तत्र वृत्तिनियामकश्च संयोगसमवाय-
स्वरूपकालिकादिभेदेनानेकविधः । वृत्त्यनियामकस्तु विषयविषयिभावप्रति-
योग्यनुयोगिभावाधाराधेयभावस्वस्वामिभावतादात्म्यादिभेदेनानेकविधः ।
तत्र संयोगसमवायावेव मुख्यौ । तद्भिन्ना गौणाः । वृत्तिनियामकस्तु
कदाचिद्विरोधितानियामको भवति । तथा हि । साध्यतावच्छेदकसंबन्धेन
• साध्यवत्ताबुद्धिं प्रति येन संबन्धेन साध्याभावप्रकारकनिश्चयः प्रतिबन्धकः
सः । यथा पर्वते संयोगेन वहिसाधने दैशिकविशेषणतासंबन्धः । अयं
• साध्यवत्ताग्रहविरोधितानियामकसंबन्धः इति जेगीयते । अथ वा स्वीय-
यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रकारताशालिज्ञानं प्रति येन संबन्धेन
• स्वप्रकारकं ज्ञानं विरोधि सः । यथा संयोगेन घटवत्ताबुद्धिविरोधिता-
नियामको दैशिक विशेषणतासंबन्धः इत्यादिरूह्यः । स्वप्रकारकमित्यत्र
• स्वशब्देनाभावो ग्राह्यः । अयं च स्वप्रतियोगिमत्ताग्रह विरोधिता नियामक
संबन्धः इत्युच्यते । २ धर्मशास्त्रज्ञास्तु गोत्रजत्वादिः । यथा योनिसंबन्धः
• इत्यादौ संबन्धशब्दस्यार्थ इत्याहुः । ३ नीतिशास्त्रज्ञास्तु नृणां संसर्गः ।
स च त्रिविध: विद्याजन्यः योनिजन्यः प्रीतिजन्यश्च इत्याहुः । अत्रोक्तम्
सेबन्धत्रिविधः पुंसां विप्रेन्द्र जगतीतले । विद्याजो योनिजश्चैव प्रीतिजश्व
प्रकीर्तितः ॥ मैत्रं तु प्रीतिजं प्रोक्तं स संबन्ध: सुदुर्लभः ( ब्रह्मवै
ब्रह्मख० अ० १० ) ( वाच० ) इति । ४ समृद्धिः । ५ हितम् इत्यजय
आह । ६ सम्यग्बन्धः संबन्धः इति काव्यज्ञा आहुः ।
 
संबन्धि-संबन्धस्य प्रतियोग्यनुयोगि च । यथा घटवद्भूतलम् इत्यादौ
• संयोगस्य घटः प्रतियोगी भूतलं त्वनुयोगि भवति (राम० १ पृ० ३९ ) ।
अत्र संबन्धिता च आधारानाधारसंबन्धिमात्र साधारणः स्वरूपसंबन्ध-
विशेष इति विज्ञेयम् ( मू० म० १ ) ।
 
चैत्र
 
संबोधनम् - [क] वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । यथा
• त्वया भुज्यताम् इत्यादौ चैत्रपदोत्तरवर्तिप्रथमाविभक्तेरर्थः । अत्र संबो-
धनेच (पाणि० २।३।४७ ) इत्यनेन सूत्रेण प्रथमा संबोधनमेवाह ।
तथा च प्रथमार्थतादृशेच्छायाः प्रकृत्यर्थविशेष्यतया भानम् ।
 
अत्रेदं
 
११६ न्या० को०