न्यायकोशः /939
This page has been fully proofread once and needs a second look.
प्रमाणम् । तथा प्रपञ्चः संसारश्चेति द्विविधा सृष्टि: । तत्र प्रपञ्चस्य
भगवत्कार्यत्वेन सत्यत्वं नित्यत्वं च । संसारस्य तु मायाकार्यत्वेन मिथ्या-
त्वमेव इति । एतन्मते अभावमात्रं न स्वीक्रियते इति हृदयम् । अत्र
संग्रह: शुद्धाद्वैतप्रचारेण मायावादनिवर्तकान् । श्रीमदाचार्यचरणान्
प्रणमामि पुनः पुनः ॥ इति । वल्लभाचार्यैः षोडश ग्रन्थाः कृताः
इति ज्ञेयम् ।
<शुद्धिः
१ मार्जनम् नैर्मल्यसंपादनं वा । तञ्च [क] भस्मादिसंयोग-
समानकालीन।स्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्धंसः ।
यथा भस्मना कांस्यादिपात्रादिशुद्धिः (त० दी० ) । अत्र कालीनान्तं
यावत्त्वं चाभावविशेषणम् । तादृशाभावसाहित्यं च ध्वंसविशेषणम् इति
बोध्यम् । यावदभावसहितेत्यत्र साहित्यं च संबन्ध विशेष नियन्त्रितं सामाना-
घिकरण्यम् (नील० पृ० ४६-४७) । अत्रान्ये आहुः । भोजनादि
रूपकार्याहतारूपा कांस्यादावाधेयशक्तिः पदार्थान्तरमेव
शुद्धिजनकत्वाभिमतेनाम्लादियोगेन ताम्रादौ तत्तद्रव्ये देवतावि
शुद्धिः । एवम् प्रतिमादौ प्रतिष्ठादिना देवतासंनिधिरेव शुद्धिः । तथा
•
घटादावपि शुद्धप्रतिज्ञादिकमपेक्ष्य प्रतिष्ठाविधिना जयप्रयोजकीभूतो
धर्मो जन्यते । अशुद्धप्रतिज्ञामपेक्ष्य भङ्गप्रयोजकः अधर्मो जन्यते
इत्याद्यूह्यम् इति । एवम् परमाणुगतपाकजविशेषगुणात्पार्थिवकार्य विशेष
द्रष्टव्यः । जलादावदृष्टादि निमित्त भेदात्कार्यवैजात्यमूहनीयम् ( चि० ) ।
एवम् शुद्ध्यन्तरमपि स्वयमूझन् । [ख ] तत्तत्समयावच्छेदेन भस्मादि-
संयोगप्रतियोगिकाना दिसंसर्गाभावः । स च तत्तत्समानकालीनचाण्डा -
•
सि० दी० पृ० २०) । २ धर्मज्ञास्तु वैदिककर्मयोग्यत्वसंपादकसंस्कारवि-
दिप्रतियोगियावदना दिसंसर्गाभावसमानाधिकरणः ( न्या०
इति । तदर्थस्तु भस्मादिसंयोगजनितः कांस्यायुपभोक्तृनिष्ठः संस्कार:
शेष इत्याहुः । अत्र केचिदाहुः स च संस्कारो भस्मादिप्रयोक्तूनिष्ठ एव
इति । अत्रेदमधिकं बोध्यम् । शुद्धद्धशुद्धी शास्त्रज्ञाप्ये संस्काररूपे ।
-