2023-12-25 14:48:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८८३
 
दण्डोत्तरेण शुक्रमार्तवं च भवति इति सिद्धान्तः ( वाच० ) । अथ

शुक्रस्य स्थानमाह । यथा पयसि सर्पिस्तु गूढश्वेक्षौ रसो यथा । एवं हि

सकले काये शुक्रं तिष्ठति देहिनाम् ॥ इति । कण्डराणां प्ररोहः स्यात्

स्थानं तद्वीर्यमूत्रयोः । स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः ॥

वृषणौ भवतः सात् कफासृग्भ्यां च मेदसाम् । वीर्यवाहिसिराधारौ

तौ तौ पौरुषावहौ ॥ ( भावप्र० ) । अथ शुक्रस्य क्षरणमार्गमाह ।

द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः । मूत्रस्रोतःपथे शुक्रं पुरुषस्य

प्रवर्तते ॥ ( भावप्र० ) ( वृद्धवाग्भट० ) इति । २ दैत्यगुरुः । अस्य

शुक्र इति नाम्नि कारणमाह नन्दिनापहृते शुक्रे गिलिते च विषादिना

इत्युपक्रम्य तेन शब्देन महता शुक्रः शंभूदरे स्थितः इत्यभिधाय

शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । चस्कन्द च स नामापि ततो

देवेन भाषितः ॥ ( काशीखण्ड ० ) इत्याद्युक्तम् । अयं ग्रहविशेषः ।

३ अग्निः । ४ ज्येष्ठमासः । ५ विष्कम्भादिषु (२७) योगेषु चतु-

विंशो योगविशेषः ।
 

 
-
 

 
<
शुक्लपक्षः >
चन्द्रकलावृद्ध्यधिकरणकाल: ( पु० चि० पृ० ३१ ) ।

 
<
शुचि: - >
१ शुक्लवर्णः । २ स्नानादिजन्यपुण्य विशेषवान् । अत्र शुचि-
•●

स्तत्कालजीवी कर्म कुर्यात् इत्यनया श्रुत्या शौचस्य कर्माङ्गत्वमुक्तम् ।

३ शौचापरपर्यायशुद्धिमान् । अत्रोच्यते । रूपगन्धरसस्परौंः शास्त्रोक्तै-

युक्तमुत्तमम् । प्रोक्षिताभ्युक्षितं द्रव्यं शुच्यन्यदशुचि स्मृतम् ॥ स्वतः

शुच्यपि वाग्दुष्टं भावदुष्टमथापि वा । अशुचि स्यात् ( त ० ०

पृ० २३२) इति । अत्राधिकं च शुद्धिशन्दव्याख्याने दृश्यम् ।

४ सूर्यः । ५ अग्निः । ६ अर्कवृक्षः । ७ आषाढमासः ।
 

 
<
शुद्ध त्वम् - त्वम्>
१ तदितरधर्मानाक्रान्तत्वम् । यथा शुद्धपर्वतत्वावच्छिन्नो-

देश्यता निरूपित शुद्धसंयोगसंबन्धावच्छिन्न शुद्धवह्नित्वावच्छिन्नविधेयताका-

नुमितिं प्रति ( ग० २ संश० पक्ष० ) इत्यादौ पर्वतत्वादेः शुद्धत्वम् ।

अयमाशयः । पर्वतो वह्निमान् धूमात् इत्यादौ सामानाधिकरण्यसंबन्धेन

सौन्दर्य विशिष्टं पर्वतत्वमपेक्ष्य केवलपर्वतत्वस्य शुद्धत्वम् । सौन्दर्य-
-