This page has not been fully proofread.

तृतीयावृत्तावुपोद्धातः ।
 
१ कोशाभिध्या प्रसिद्धेषु ग्रन्थेषु न्यायशास्त्र विषये
प्रस्तुतो ग्रन्थ एक एव दृष्टिपथमवतरति । यस्मिन्कस्मिन्नपि दर्शने शास्त्रे वा
यावत्कालपर्यन्तं न लिखिता बहवो ग्रन्था न परिभाषाः सांकेतिकाः शब्दा
वा विस्तरेण विवेचिता न वा विरचितानि चर्चारूपाणि विवरणानि न च
प्रणीता वृत्तयो विवृतयष्टीकाश्च न चापि प्रसृता विद्वगोष्ठीषु विवादास्ताव -
कालपर्यन्तं प्रायो न वर्तते कोशग्रन्थानां रचनावसरस्त स्मिन्विषये इति तु
लोके बहुशो वयं पश्यामः । प्रतिपाद्यविषयस्य विस्तारस्तस्य च सप्रपञ्चं
नैक विधया रीत्या स्थाने स्थाने विवेचनं द्वयमेतत्कोश निर्माणावसरदाने प्रायः
प्रयोजकम् । अत एव बहुभिकैः प्रयुज्यमानायां भाषायां ये शब्दाः
प्रत्यहं प्रयुज्यन्ते तेषां कोशाः प्रथमं प्रणीयन्तेऽनन्तरं विशिष्टानां नामा-
ख्यातादीनामपरेषां च शब्दानां कोशाः प्रणीयन्ते तदनन्तरं च वेदादिवि -
शिष्टविषयेषु प्रयोगवैशिष्यमर्थवैशिष्ट्यं वा प्रतिदधानानां शब्दानां कोशा
निर्मीयन्ते । प्रत्यहं विस्तारमुपगच्छत्सु शास्त्रार्थ विषयेषु समुपजायमानतया
शब्दार्थविशेषबाहुल्यस्य, मर्यादिततया च मानुषस्य मनसो धारणाशक्तेर्बु-
द्वेश्च विषयाकलनशक्तेर्यथा यथा वृद्धिं समुपयान्ति शास्त्रार्थविषयास्तथा
तथा प्रगुणीभवति प्रयोजनमपि कोशादिग्रन्थानाम् । शास्त्रग्रन्थोपस्थितिं प्रति
प्रतिदिनमधिकतरं जायमानोनादरोपि बद्धादरं कोशादिकपर्या लोचने कुरुते
जनमित्यपि प्रत्यक्षीकुर्महे ॥
 
.
 
२ पर्यालोच्यमानायामुपरिनिर्दिष्टायां विचारसरण्यामेतावत्कालपर्यन्तं न्या-
यशास्त्रे परिदृश्यमानस्य कोशग्रन्थाभावस्य हेतुरपि सुतरां प्रतीतो भवति ।
पुरातने काले यस्मिन्कस्मिन्नपि सांख्ययोगादौ मीमांसाव्याकरणादौ वा
शास्त्रे पारंगततामुपेयुषां पण्डितप्रवराणां न्यायशास्त्रगतैस्तर्क दीपिकामुक्ताव-
श्रीचिन्तामण्यादिभिः प्राथमिकैग्रन्थैः परिचयस्य नितरामावश्यकतया संपा
त्विात्सांख्ययोगशास्त्राध्ययनाध्यापनादिकर्मणि व्याटताना ममीषां न्याय-
H