2023-12-25 10:31:47 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८३५
 
-
 

 
1
 
२ पृ० ११ - १२) । साध्यतावच्छेदकसंबन्धावच्छिन्नं यत्साध्यवश्वं

तदवच्छिन्न प्रतियोगिताकस्यान्योन्याभावस्य स्वप्रतियोगितावच्छेदकवत्त्व-

बुद्धिविरोघिता घटकसंबन्धेन यदधिकरणम् तन्निरूपित हेतुतावच्छेदक-

संबन्धावच्छिन्नवृत्तितानवच्छेदकहेतुतावच्छेदकधर्मवत्त्वम् इति समुदि-

तार्थ : (वै० वि० ३ । १२।१४ ) (मु० २) । ( ६ ) साध्यासामाना-

धिकरण्यानधिकरणत्वम् । तस्य निष्कृष्टार्थस्तु साध्यनिष्ठाघेयत्वानिरूप-

काधिकरणत्वव्यापकाभावप्रतियोग्यधिकरणतासामान्यकत्वम् इति । तेन

सत्तावान् द्रव्यत्वादित्यादौ न दोषः ( दीधि ० २ पृ० १३) । इदं

लक्षणं सिंहलक्षणम् इत्युच्यते । (७) साध्यवैयधिकरण्यानधिकरण-

त्वम् ( चि० २ पृ० २) । इदं लक्षणं व्याघ्रलक्षणम् इत्युच्यते ।

एतावन्ति सप्त लक्षणान्यन्वयव्यतिरेकिकेवलव्यतिरेकिणोर्हेत्वोर्लक्षणानि ।

न तु केवलान्वयिनो हेतोः । तत्र साध्याभावाद्यप्रसिद्धेः । अग्रिमलक्ष-

णानि तु केवलान्वयिसाधारणान्यपि इति बोध्यम् । (८) यत्समाना-

धिकरणा: साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदक प्रतियोगिताका

यावन्तः अभावाः प्रतियोगिसमानाधिकरणाः तत्त्वम् । साध्यतावच्छेद-

कावच्छिन्नव्यापकतावच्छेदिका या या प्रतियोगिता तत्तदाश्रयसामानाधि-

करण्यं यत्र कचिद्यावदधिकरणान्तर्भावेन तत्त्वम् इति समुदितार्थ:

( ग० चतु० ) । अत्र यावन्तः अभावाः इत्यनेन केवलान्वयिनि वाच्य-

त्वादौ साध्ये समवायितया वाच्यत्वाभावम् वह्निमान् घूमादित्यादौ तु

घटत्वेन वहयभावादिकं व्यधिकरणधर्मावच्छिन्नाभावमादाय लक्षणसम-

अन्वयः कर्तव्यः इति विज्ञेयम् । इदं लक्षणं च दीधितिकृता स्वयं

लक्षणानि सौन्दडोपाध्यायाभिमतव्यधिकरणवर्मावच्छिन्नाभावाभिप्राय-

कृतम् इति प्रथमं स्वलक्षणम् इत्युच्यते । एतल्लक्षणमारभ्य चतुर्दश-
C
 

काणि चतुर्दशलक्षणीसंज्ञकानि च भवन्ति इति बोध्यम् । ( ९ ) यत्समा-

नाधिकरणानां साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्न-

प्रतियोगिताकानां यावदभावानां प्रतियोगितावच्छेदकावच्छिन्नसामानाधि-

करण्यम् तत्त्वं वा । अत्र केवलान्वयिसाध्यकस्थले ज्ञेयत्वत्वादिना वाच्य-
1