This page has not been fully proofread.

८३४
 
न्यायकोशः ।
 
...
 
मेन व्याप्तिग्रहस्तु ब्राह्मणो न हन्तव्यः गोने पदा स्प्रष्टव्या इति । अत्र
दृष्टान्तापेक्षा नास्ति । अत्रेदं बोध्यम् । कार्यं कारणमात्रमनुमापयति ।
कारणं तु समग्रमेव कार्यम् ( प्र० प० पृ० १४-१६) इति ।
तत्र पूर्वपक्षीयान्वयव्याप्तिश्च ( १ ) साध्याभाववदवृत्तित्वम् ।
(२) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् । (३) साध्यवत्प्रतियोगि
कान्योन्याभावासामानाधिकरण्यम् । ( ४ ) सकलसाध्याभाववनिष्ठा-
२ ) । यथा पर्वतो वह्निमान् धूमादित्यादौ वह्नेरत्यन्ताभाववति वह्निम-/
भावप्रतियोगित्वम् । (५) साध्यवदन्यावृत्तित्वं वा ( चि० २१०
• द्भिन्ने वा जलादौ धूमो नास्ति इति धूमादौ वह्नेर्व्याप्तिः । अत्र प्रथम
• लक्षणस्य साध्यतावच्छेदक संबन्धावच्छिन्नसाध्यतावच्छेदका वच्छिन्नप्रति-
• योगिताकप्रतियोगिव्यधिकरणसाध्याभावाधिकरणनिरूपित हेतुतावच्छेदक
• संबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः इति समुदितार्थः ।
· अत्र प्रतियोगिवैयधिकरण्यं च प्रतियोगितावच्छेदकसंबन्धावच्छिनप्रति-
•योगितावच्छेदकावच्छिन्नवैयधिकरण्यं विज्ञेयम् ( न्या० बो० २५०
१४) । एतानि च पञ्च अव्यभिचरितत्वपदप्रतिपाद्यानि व्याव्यलक्षणाि
• व्याप्तिस्वरूपाणि च पञ्चलक्षणी इति नैयायिकैर्व्यवह्नियन्ते । तीन/
• विग्रहो ज्ञेयः । अत्र लक्षणे कर्मादौ संयोगाद्यभावस्य भिन्नत्रे मानाभा-
लक्षणे साध्यवद्भिने वर्तमानः यः साध्याभावः तद्वद्वृत्तित्वम् इति ।
• साध्यवत् इति । अत्र तृतीये लक्षणेपि हेतोः साध्यवत्पक्षभित्रदृष्टान्त
• वात् अव्याप्तिः । अतो द्वितीयलक्षणे अस्वारस्य मास्थाय तृतीयलक्षणमुक्तं
• विशेषणं बोध्यम् । साध्याभावो वा साध्यतावच्छेदकावच्छिन्नप्रतियोगि
• वृत्तित्वेनाव्याप्तेश्चतुर्थमुक्तं सकलेति । साकल्यं साध्याभाववति साध्ये च
• ताको ग्राह्यः । तेन विपक्षैकदेशनिष्ठाभावप्रतियोगिनि व्यभिचारिण
 
• नातिव्याप्तिः । न वा नानाव्यक्तिसाध्यकसद्धेतावव्याप्तिः ॥
- नास्थायां कारणं तु यत्रैकव्यक्तिकं साध्यं विपक्षो वा तत्र निर्धूमत्वादि
• व्याप्ये तत्त्वेन साध्ये निर्वह्नित्वादौ चाव्याप्तिः । तत्र हेत्वभावस्य
 
19
 
चतुर्थलक्षणा