न्यायकोशः /883
This page has been fully proofread once and needs a second look.
<व्यापकत्वम्>
१ [ क ] तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छे-
दकधर्मवत्त्वम् (न्या० बो० ) । अत्र व्युत्पत्तिः विशेषेणाप्नोति ( वि
आपू ण्वुलू ) इति व्यापकः । तस्य भावो व्यापकत्वम् । अनया व्युत्पत्त्या
व्याप्तिकर्तृत्वं लभ्यते । तच्च व्याप्तिनिरूपकत्वम् । यथा पर्वते धूमेन
बह्रिसाधने वह्नेर्धूमनिष्ठव्य।प्तिनिरूपकत्वरूपं व्यापकत्वम् ( प्र० च० २
पृ० १९ ) । [ ख ] तद्वन्निष्ठभेद प्रतियोगितानवच्छेदकत्वम् । तदर्थः
यत् यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं न भवति तत्
तद्व्यापकम् इति ( न्या०सि० दी० पृ० ५६ ) । यथा वहेर्धूमव्यापक-
त्वम् । तथा हि घूमसमानाधिकरणो योन्योन्याभावः न वह्निमद्भेदः
अपि तु जलवद्भेद एव । तत्प्रतियोगितानवच्छेदको वह्निर्भवति इति
वह्निर्धूमव्यापको भवति । [ग] तत्समानाधिकरणा यावन्तो धर्मा
यत्समानाधिकरणाः तत्त्वम् ( न्या० म० २ पृ० १६ ) । यथा मनु-
ष्यत्वसमानाधिकरणयावद्धर्माणां प्राणित्वसामानाधिकरण्यात्प्राणित्व
मनुष्यत्वव्यापकत्वम् । घ स्वप्रतिबद्धबुद्धिजनकत्वं यत्स्वरूपम् तदेव
व्यापकत्वम् इति प्राञ्च आहुः ( त० भा० ) । ङ निरुक्तप्रतियो-
ग्यनधिकरणहेतुमन्निष्ठाभावप्रतियोगितासामान्ये यत्संबन्धावच्छिन्नत्व यद्ध-
मोवच्छिन्नत्व एतदुभयाभावः तेन संबन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्या-
पकत्वम् ( दीधि० २ व्याप्तिनि० ) (मु० २ व्याप्तिनि० ) । निरुक्त-
प्रतियोगीत्यस्य प्रतियोगितावच्छेदक संबन्धावच्छिन्न प्रतियोगिताको यादृशः
अभावो लक्षणघटकत्वेनाभिमतः तस्य प्रतियोगीत्यर्थः । इदं च
साध्यस्य हेतुव्यापकत्वम् इति बोध्यम् । यथा पर्वतः संयोगेन वह्निमान्
धूमादित्यादौ वर्धूमव्यापकत्वम् । अत्रायं नियमः व्याप्यव्यापकभावो
हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥ अन्वये
साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा व्याप्यो व्यापकः
साधनात्ययः ॥ व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परी-
क्षिता व्याप्तिः स्फुटीभवति तत्त्वतः ॥ ( त० मा० २ ) ( त० कौ०
२ ) इति । [च ] यन्निरूपितसाध्यतावच्छेदकता घट कसंबन्धसामान्ये