2023-12-25 10:15:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८२१
 
१।१२।३५ ) । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ गन्ध-

वत्त्वात् इति शब्दो व्यतिरेकिहेतुः ।
 

 

 
<
व्यतिरेक्युदाहरणम्>
( अवयवः) [क] तद्विपर्ययाद्वा विपरीतम्

( गौ० ११ १२ १३७ ) । तदर्थश्च साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात्

(गौ० वृ० १ । १ । ३७ ) इति । व्यतिरेक्युदाहरणत्वं च साध्यसाधना-

भावसंबन्धबोधकत्वम् ( चि० अव० २ पृ० ८० ) । अथ वा व्यति-

रेक व्याप्तिबोधकत्वम् ( दीधि० २ पृ० १७७) । अत्र भाष्यम् ।
min

साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्प

त्तिधर्मकत्वात् अनुत्पत्तिधर्मर्क नित्यमात्मादि । सोयमात्मादिर्दृष्टान्तः

साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावी । योसौ साध्यस्य धर्मः अनि-

त्यत्वम् स तस्मिन्न भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्या-

भावाद नित्यत्वं न भवति इत्युपलभमानः शब्दे विपर्ययमनुमिनोति उत्प-

त्तिधर्मकःवस्य भावादनित्यः शब्दः इति ( वात्स्या० ११११३७) ।

[ख] साध्यसाधनव्यतिरेकव्याप्त्युपदर्शकोदाहरणम् । यथा जीवच्छ-

रीरं सात्मकं प्राणादिमत्त्वात् यन्नैवं तन्नैवं यथा घटः इति ( गौ० दृ०

१।१।३७ ) । यन्नैवमित्यस्यार्थस्तु यन्न सात्मकं तन्न प्राणादिमत् इति ।

 
<
व्यतिरेक्युपनयः>
(अवयवः ) उदाहरणापेक्षो न तथेति साध्यस्यो-

पसंहार: (गौ० ११११३८ ) । साध्यवैधर्म्ययुक्ते उदाहरणे आ

त्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम् न च तथा शब्दः इत्यनुत्पत्ति-

धर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्वमुपसंह्रियते । उपसंह्वियतेनेनेति

चोपसंहारो वेदितव्यः (वात्स्या० १११३८ ) इति । साध्यस्य

पक्षस्य उदाहरणापेक्ष उदाहरणानुसारी य उपसंहार उपन्यासः । प्रकृ-

दाहरणोपदर्शितव्यतिरेक व्याप्ति विशिष्ट हेतु विशिष्टपक्षबोधनको

वयवः इति तात्पर्यम् । व्यतिरेक्युपनयत्वं च साध्याभावव्यापकीभूतभा-

पर्वतो वह्निमान्धूमादित्यादौ वह्नयभावव्यापकीभूताभावप्रतियोगिधूम-

वप्रतियोगिमत्पक्षबोधकावयवत्वम् (चि० अवय० २ पृ० ८१) । यथा
 
-
 
+
 

वायम् इति न तथायम् इति वा वाक्यमुपनयः (गौ० वृ० ११ १२ १३८ ) ।