2023-12-25 09:49:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८०२
 
न्यायकोशः ।
 
तीक्ष्णगतिजनकगुणत्वम् इति कश्चिदाह ( ल० व० ) । [ख द्वितीय-

पतनासमवायिकारणम् ( सि० च० गु० पृ० ३५ ) । अत्र प्रथम-

पतनस्यासमवायिकारणं तु गुरुत्वमेव इति तद्व्युदासाय द्वितीयपदम् ।

[ग] द्वितीयादिक्रियाहेतुः (प्र० प्र० ) ( त० दी० ) । [घ ] कर्मजः

संस्कारः । यथा यक्षग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात्

( विक्रमोर्व० ११४ ) इत्यादौ वेगः । स च वेगो मूर्तमात्रवृत्तिः

( प्र० प्र० ) ( भा० प० ) ( त० सं० ) ( त० कौ० ) । अत्र

भाष्यम् वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात्कर्मणो जायते ।

नियतदिक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी । चित्

पूर्वप्रक्रमेणोत्पद्यते ( प्रशस्त ० २ गुण० पृ० ५३) इति । वेगो द्विविधः

कर्मजः वेगजश्च । तत्राद्यः शरादौ नोदनजनितेन कर्मणा जायमानो

वेगः प्रसिद्धः । तेन च पूर्वकर्मनाशः । तत उत्तरकर्म । एवमपि ।

वेगं विना कर्मणः कर्मप्रतिबन्धकत्वात् पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न

स्यात् ( मु० गु० पृ० २३२ ) इति । वेगजो वेगस्तु वेगवत्कपाल

जन्यघटे प्रसिद्धः ( भा०प० श्लो० १५९ ) (मु० ) ( सि०

गु० पृ० ३५ ) ( त० व० पृ० २३०) । मीमांसकास्त निरन्तरो

गतिसंतान एव वेग इत्याहुः (प० मा० ) । तन्न सहन्ते नैयायिकाः /

वेगोपि गुणान्तरम् न क्रियासंततिमात्रम् । मन्दगतौ वेगप्रतीत्यभावात् ।

क्रियाक्षणानामाशूत्पादनिमित्तो वेगव्यवहार इति चेन्न । अलातचक्रादिष्ठ

क्रियाक्षणानां निरन्तरोत्पादव्ययवतां प्रत्येक मन्तराग्रहणेनाशूल्पा

वेगयोर्भेदावगतिः । वेगेन गच्छति इति प्रतीते: ( न्या० क० साधर्म्य०

प्रत्यक्षेणाप्रतीतेः । वेगप्रत्ययस्य च भावात् । व्यक्ता च लोके क्रिया-

पृ० २२ ) ( दि० गु० पृ० २३३ ) । २ शारीरकशास्त्रज्ञा भिषजस्तु

मूत्रविष्ठादिनिःसारणयतः इत्याहुः । अत्र प्रसङ्गत उदाहियते स्वभावतः

प्रवृत्तानां मलादीनां जिजीविषुः । न वेगं धारयेद्वीरः कामादीनां च

धारयेत् ॥ ( राजनि० ) इति । ३ समूहः इति काव्यज्ञा आहुः /
 
To 7०
 
-
 

 
<
वेदः - >
१ ( शब्दः ) [क] लौकिकवाक्यभिन्नवाक्यम् ( कु० टी० ५ //

तच्च ज्ञानसाधनं धर्मब्रह्मप्रतिपादकं शास्त्रम्, मन्त्रब्रह्माणभेदेन द्विविधं च