2023-12-25 09:49:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
पकत्वसंबन्धावच्छिन्नप्रतियोगिताकधननिष्ठहेतुत्वाद्यभावः कुलादौ प्रती-

यते । विप्राय गां न ददाति इत्यादौ निरूपकत्वसंबन्धावच्छिन्न प्रति-

योगिताकद्विजनिष्ठसंप्रदानत्वाभावो गवि प्रतीयते इति । एवमग्रेप्यूहाम् ।

नव्यास्तु तन्न स्वीकुर्वन्ति । पूर्वोक्तस्थलेषु जन्यत्वसंप्रदेयत्वादिकमेव

तृतीयार्थः । तथा च स्वरूपसंबन्धावच्छिन्न प्रतियोगिको धनजन्यत्वाद्य-

भाव एव तत्र प्रतीयते ( ग० व्यु० का० १ ) इति । SPRA

 
<
वृथाचेष्टा>
स्वकर्तव्यताप्रयोजकेच्छाविषये स्वरूपायोग्यकर्म (मू० म० १ ) ।
 

यथा वृथाचेष्टां न कुर्वीत इत्यादौ स्वर्गोद्देशेन कृतं चैत्यवन्दनं वृथाचेष्टा ।

 
<
वृद्धिः>
१ [ क ] कारणवतो द्रव्यस्यावयवोपचयः । अवर्धत गौरिति

( वात्स्या० २।२।५९ ) । [ ख ] अवयवोपचयः ( दि० १ ) ।

२ आकार ऐकार औकार एते त्रयो वर्णा वृद्धिः इति शाब्दिका वदन्ति ।

३ व्यवहारज्ञास्तु उत्तमर्णस्य स्वदत्तद्रव्यमपेक्ष्याधमर्णाकारितोधिकलाभो

( व्याज बड्डि सुद ) वृद्धिः इत्याहुः । अत्रोक्तं नारदेन वृद्धिश्चतुर्विधा

प्रोक्ता पञ्चधान्यैः प्रकीर्तिता । षड्डिधान्यैः समाख्याता तत्त्वतस्तां निबो-

धत ॥ कायिका कालिका चैव चक्रवृद्धिरतोपरा । कारिता सशिखा

वृद्धिर्भोगलाभस्तथैव च ॥ (वीरमित्रो० अ० २ ऋणादान० पृ० २९४ )

इति । वार्धुषिके अशीतिभागो वृद्धिः स्यात् इति पुरुषार्थचिन्तामणिः

( पृ० २८ ) । ४ जननाशौचम् । वृद्धिर्नाम पुत्रजन्मादिनिमित्तोपल-

क्षितः कालः (पु० चि० पृ० ३७७) । ५ मिषजस्तु औषधिविशेषः ।

६ रोगविशेषश्च इत्याहु: ( भावप्र० ) ।

 
<
वृश्चिकी->
(विष्टि:) असिते सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी। सर्पि-

ण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च ॥ ( पुरु० पृ० ३१२ ) ।
 

 
<
वेगः>
१ (गुणः संस्कारः ) [ क ] वेगवजातिमान् (त० दी० गु० )

( त० कौ० ) । लक्षणं च क्रियाजन्यत्वे सति क्रियाजनकध्वम् । अत्र

गुरुत्वा दिवारणाय सत्यन्तं दलं दत्तम् । विभागादिवारणाय विशेष्यदलं

दत्तम् इति ज्ञेयम् । अथ वा मूर्तमात्रवृत्तितावच्छेदकसंस्कार विभाजको-

पाधिमत्त्वम् (वाक्य० गु० पृ० २१-२२) (भा० प० ) (त० भा० ) ।
 

१०१ न्या० को