2023-12-25 09:28:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७७९
 
<विवेकः>
१ [ क ] पृथक्त्वेन ज्ञानम् । यथा नीरक्षीरविवेकः । [ख]

विशेषरूपेण ज्ञानम् इति केचिदाहुः । [ग] अन्योन्यधर्मव्यावर्तनेन

यथार्थ्येन तुरूपावधारणम् । यथा सांख्यमते प्रकृतिपुरुषयोर्भेद-

ज्ञानम् । २ विचारः । ३ विवेको नामादुष्टशदनात्सत्वशुद्धिः ( सर्व०

सं० पृ० १२४ रामानु० ) ।
 

 
<
विशिष्टद्वयाघटितत्वम्>
यादृश विशिष्टविषयक निश्चयविशिष्टयादृश विशिष्ट-

विषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति भवति तादृश-

विशिष्टद्वयाघटितत्वम् । यथा हृदो वह्निमान्धूमादित्यादौ वयभाववद्ध-

दात्मकबाधस्य जलावच्छिन्नवभाव जलवद्धद एतद्विशिष्टद्वयाघटितत्वम्

( ग० २ हेत्वा० सामा० पृ० ११) । विशिष्टद्वयाघटितस्वरूपस्य

विशेषणस्य प्रयोजनं च गादाधरीय द्वितीय हेत्वाभाससामान्यलक्षणे हृदो

बह्निमानित्यादौ वह्नयभाववज्जलादिमद्वृत्तिजलवद्धदरूपविशिष्टे अलक्ष्येति-

व्याप्तिवारणम् इति विज्ञेयम् । यद्रूपावच्छिन्नविषयक निश्चय विशिष्टयद्रूपा-

वच्छिन्नाविषयकयट्र्पावच्छिन्नविषयक
निश्चयत्वं स्वव्यापकत्व स्वाभावबट्ट-

त्तित्व एतदुभयसंबन्धेन स्वावच्छिन्नविषयताव्यापकप्रतिबन्धकता विशिष्टा-

न्यज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकतानतिरिक्तवृत्ति भवति तत्तद्रूपावच्छि-

नाविषयकप्रतीतिविषयत्वं फलितोर्थः । तेन नातिव्यायव्यायादयो दोषाः

इत्यस्मद्गुरुचरणाः प्राहुः ।
 
विशिष्टम् -

 
<विशिष्टम्>
१ विशेषणवद्विशेष्यम् ( चि० १) । यथा द्रव्यं गुणव-

दित्यादौ द्रव्यं गुणविशिष्टम् । अत्रायं विशेषः । विशिष्टज्ञानं प्रति विशेषण-

ज्ञानं कारणम् इति कार्यकारणभावो नैयायिकसिद्धान्तसिद्धो ज्ञातव्यः ।

अत्रेदमधिकं ज्ञेयम् । विशिष्टाभावस्त्रिविधः विशेषणाभावप्रयुक्तः विशे-

व्याभावप्रयुक्त: उभयाभावप्रयुक्तश्चेति । तत्राद्यो यथा वायौ रूपवि-

शिष्टस्पस्याभावः । द्वितीयो यथा वायौ स्पर्शविशिष्टरूपस्याभावः ।

तृतरूपविशिष्टघटत्वस्याभावः इति । अत्र वैशिष्ट्यं च
 

साहित्यं सामानाधिकरण्यं वा ज्ञेयम् । तत्राद्ये स्पर्शे रूपं विशेषणम् ।

तस्य वायावभावात् स्पर्शसखेपि रूपविशिष्टस्पर्शस्याप्यभावो मन्तव्यः ।