This page has not been fully proofread.

न्यायकोशः ।
 
७७९
 
विवेकः–१ [ क ] पृथक्त्वेन ज्ञानम् । यथा नीरक्षीरविवेकः । [ख]
विशेषरूपेण ज्ञानम् इति केचिदाहुः । [ग] अन्योन्यधर्मव्यावर्तनेन
यथार्थ्येन तुरूपावधारणम् । यथा सांख्यमते प्रकृतिपुरुषयोर्भेद-
ज्ञानम् । २ विचारः । ३ विवेको नामादुष्टशदनात्सत्वशुद्धिः ( सर्व०
सं० पृ० १२४ रामानु० ) ।
 
विशिष्टद्वयाघटितत्वम्—यादृश विशिष्टविषयक निश्चयविशिष्टयादृश विशिष्ट-
विषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति भवति तादृश-
विशिष्टद्वयाघटितत्वम् । यथा हृदो वह्निमान्धूमादित्यादौ वयभाववद्ध-
दात्मकबाधस्य जलावच्छिन्नवभाव जलवद्धद एतद्विशिष्टद्वयाघटितत्वम्
( ग० २ हेत्वा० सामा० पृ० ११) । विशिष्टद्वयाघटितस्वरूपस्य
विशेषणस्य प्रयोजनं च गादाधरीय द्वितीय हेत्वाभाससामान्यलक्षणे हृदो
बह्निमानित्यादौ वह्नयभाववज्जलादिमद्वृत्तिजलवद्धदरूपविशिष्टे अलक्ष्येति-
व्याप्तिवारणम् इति विज्ञेयम् । यद्रूपावच्छिन्नविषयक निश्चय विशिष्टयद्रूपा-
वच्छिन्नाविषयकयट्र्पावच्छिन्नविषयक
निश्चयत्वं स्वव्यापकत्व स्वाभावबट्ट-
त्तित्व एतदुभयसंबन्धेन स्वावच्छिन्नविषयताव्यापकप्रतिबन्धकता विशिष्टा-
न्यज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकतानतिरिक्तवृत्ति भवति तत्तद्रूपावच्छि-
नाविषयकप्रतीतिविषयत्वं फलितोर्थः । तेन नातिव्यायव्यायादयो दोषाः
इत्यस्मद्गुरुचरणाः प्राहुः ।
 
विशिष्टम् - १ विशेषणवद्विशेष्यम् ( चि० १) । यथा द्रव्यं गुणव-
दित्यादौ द्रव्यं गुणविशिष्टम् । अत्रायं विशेषः । विशिष्टज्ञानं प्रति विशेषण-
ज्ञानं कारणम् इति कार्यकारणभावो नैयायिकसिद्धान्तसिद्धो ज्ञातव्यः ।
• अत्रेदमधिकं ज्ञेयम् । विशिष्टाभावस्त्रिविधः विशेषणाभावप्रयुक्तः विशे-
व्याभावप्रयुक्त: उभयाभावप्रयुक्तश्चेति । तत्राद्यो यथा वायौ रूपवि-
शिष्टस्पस्याभावः । द्वितीयो यथा वायौ स्पर्शविशिष्टरूपस्याभावः ।
तृतरूपविशिष्टघटत्वस्याभावः इति । अत्र वैशिष्ट्यं च
 
• साहित्यं सामानाधिकरण्यं वा ज्ञेयम् । तत्राद्ये स्पर्शे रूपं विशेषणम् ।
तस्य वायावभावात् स्पर्शसखेपि रूपविशिष्टस्पर्शस्याप्यभावो मन्तव्यः ।