This page has not been fully proofread.

७७८
 
न्यायकोशः ।
 
विवादः—१ विरुद्धो वादः । २ कलहः । अत्रोदाह्रियते ऋणादिदायकलहे
द्वयोर्बहुतरस्य वा । विवादो व्यवहारश्च इति स्मृतिः । ३ विप्रतिपत्तिः ।
विवाह: – १ भार्यात्वसंपादकं कर्म । यथा अविद्रुतब्रह्मचर्यो लक्षण्यां स्त्रिय-
मुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृ-
मतीमसमानार्षगोत्रजाम् ॥ ( याज्ञ० अ० १ श्लो० ५२-५३ ) इत्यादौ
वहधात्वर्थः । अत्रानन्यपूर्विका मित्यनेन स्त्रीपुनर्विवाहो निषिद्धः इति
गम्यते । तथा च श्रुतिरपि तस्मान्नैका द्वौ पती विन्दते इति । तस्मा-
देकस्य बहुचो जाया भवन्ति नैकस्यै बहवः सह पतयः इति च / शिष्टं
तु नियोगशब्दव्याख्याने विधवाशब्दव्याख्याने च संपादितम् ।
दृश्यम् । चरमसंस्कारः विजातीयसंस्कारो वा विवाहः इत्यन्ये नव्य
नैयायिका आहुः । अत्र चरमत्वं च शास्त्रविहितसंस्कारान्तिमत्वम् ।
संस्कार प्रागभावासहचरितत्वम् इति केचिदाहु: । द्वितीय विवाहस्य ।
संस्कारत्वाभावात् तत्प्रागभावसत्त्वेप्याद्यविवाहे चरमत्वाक्षतिः (वाच० ) ।
सप्तपदीसमापनमेव इति तु वयं ब्रूमः । अष्टौ विवाहाः ब्राह्मः दैवः अर्थः
 
तत्र
 
श्लो० ५८ - ६१ ) । तथा चोक्तं मनुना ब्राह्मो दैवस्तथैवार्षः प्राजापत्य-
प्राजापत्यः आसुरः गान्धर्वः राक्षसः पैशाचश्चेति ( याज्ञ० अ० १
 
स्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोधमः ॥ ( मनु० ३/२१) /
इति । अत्र विवाहप्राशस्त्यं तत्तद्विवाहफलादिकं च मनुयाज्ञवल्क्य /
स्मृत्यादौ दृश्यम् । २ येन ज्ञानेन ममेयं भार्या ममायं पतिः इति व्यवहारो /
भवति तादृशं ज्ञानम् इति वा विवाहशब्दार्थः । तादृशं ज्ञानं तु
 
संस्कारादिनोत्पद्यते । तच्च संबन्धविशेषेणोभयनिष्ठम् ।
 
भार्यात्वसंपादकं ज्ञानम् इत्यत्र भार्यात्वस्योपलक्षणतया निवेश: /
 
अत्रेदं विचार्यम् ।
 
तेन
 
नान्योन्याश्रयः इति ।
 
विवीतः - प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगतो भूप्रदेशः ( मिताक्षरा व्य
 
श्लो० १६० ) ।
 
विवृतिः - १ विवरणम् । २ विस्तार : ( मेदिनी ० ) ।