2023-12-25 09:25:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७७७
 
-
 
<विवरणम्>
१ [ क ] तत्समानार्थबोधकपदान्तरेण तदर्थकथनम् । यथा

पचति इत्यस्य पाकं करोति इति विवरणम् (मु० ४ ) । विवरणस्य शक्ति -

ग्राहकत्वे प्रमाणमनुमानम् । तच्च यथा आख्यातपदं यत्नत्वावच्छिन्ने शक्तम्

यत्नत्वावच्छिन्नशक्तकरोतिधातुप्रतिपादितार्थकत्वात् यद्यद्धर्मावच्छिन्नशक्त-

प्रतिपादितार्थकं भवति तत्तद्धर्मावच्छिन्ने शक्तं भवति पाकत्वविशिष्टशक्त-

पाकपदप्रतिपादितार्थकपचधातुवत् इति सामान्यतो दृष्टानुमानम् ( त०

प्र० ख० ४ पृ० ७३ )। [ ख ] पूर्वोच्चरितवाक्यस्योत्तरवाक्येनार्थ-

कथनम् ( त० प्र० ख० ४ पृ० ७३ ) । २ ग्रन्थविशेषः । यथा

नागेशकृतं कैयटोपरि विवरणम् ।
 

 
<
विवर्तः>
१ [ क ] अतात्त्विकोन्यथाभावः । स च अपरित्यक्तपूर्वरूपस्य

रूपान्तरप्रकारकप्रतीतिविषयत्वम् ( बै० सा० ८० पृ० २) । यथा

मायावादिमते परब्रह्मणि सर्वस्य जगतो विवर्तः । [ख] पूर्वरूपापरि-

त्यागेनासत्यनानाकारप्रतिभासः । यथा शुक्तिकायां रजतस्य राज्यां वा

सर्पस्य प्रतीतिः (अथर्वभाष्ये सायणः ) । शिष्टं तु बादशब्दव्याख्याने

दृश्यम् । [ग] स्वरूपापरित्यागेन रूपान्तरापत्तिर्विवर्तः ( सर्व० सं०

पृ० ४२० शं० ) । २ नृत्यम् इति नर्तका आहुः । ३ समुदायः इति

काव्यज्ञा आहुः (वाच ० ) ।
 

 
<
विवसन:- >
(दिगम्बरः नास्तिकः ) अर्हन्नामको जिनः । तन्मते सप्त

पदार्था: जीव: अजीव: आस्रवः संवर: निर्जरः बन्धः मोक्षश्च इति ।

संक्षेपतस्तु जीवाजीवाख्यौ द्वावेच पदार्थों । तयोरिममपरं प्रपञ्चमाचक्षते ।

पञ्चास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायः धर्मास्तिकाय: अधर्मा-

स्तिकाय: आकाशास्तिकायश्चेति । सर्वेषामध्येतेषामवान्तरभेदा बहुविधाः

सन्ति विस्तरभयान्नोक्ताः इति । अत्र अस्तिकायशब्दः संकेतितः पदार्थ-

बाची ( शारी० भा० टी० २।२।३३) । अस्तीति कायते शब्धते

इत्यस्तिकायः पदार्थः । एतन्मते जीवः शरीरपरिमाणः । मोक्षस्तु

सप्तभङ्गीनयस्तु स्याद्वादशब्दव्याख्यानावसरे संपादयिष्यते । अत्र

जीवस्योर्ध्वगमनमेव ( शारीरकभाष्ये अ० २ पा० २ सू० ३३-३४ ) ।
 
शिष्टं
 

तु नास्तिक इत्यादितत्तच्छन्दव्याख्याने दृश्यम् ।
 

९८ न्या० को०