2023-12-02 13:35:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७६२
 
न्यायकोशः ।
 
विधेयः । अत्र विधेयत्वं च अज्ञातस्यानुष्ठेयत्वेन प्रतिपाद्यमानत्वम्

( लॉ० भा० टी० पृ० १५ ) । ३ अधीन इति काव्यज्ञा आहुः ।

 
<
विनयः>
दण्डः ।
 

 
<
विनश्यदवस्थत्वम्>
स्वप्रतियोगित्व स्वाव्यवहितपूर्ववृत्तित्व त

नाशविशिष्टत्वम् । यथा भावकार्यस्य विनश्यदवस्थत्वम् ।
 
ऋते
 

 
<
विनष्टः>
१ भूतकालोत्पत्तिकनाशप्रतियोगी । यथा विनष्टो घटः इत्यादौ ।

२ पतितः । यथा विनष्टे वाप्यशरणे पितर्युपरतस्पृहे इति नारदस्मृतौ ।

३ स्वदेशादन्यत्र गतः इति च धर्मशास्त्रज्ञा आहुः ( दायभागे ) ।
विना –

 
<विना>
१ अभावः । यथा दण्डं विना न घटः इत्यादौ । एवम्

द्वितीयार्थः । तस्य च विनायें अभावेन्वयः । विनान्तार्थस्याभावस्य

अन्तरेण इति निपातयोरप्यर्थ ऊह्यः । अत्र प्रतियोगित्वमनुयोगित्वं वा

नञर्ये घटाद्यभावे प्रयोज्यतासंबन्धेनैवान्वयः । अत एव रासभं विना न

घटः इत्यादयो न प्रयोगा: ( ग० व्यु० का० २ ख० २ पृ० ७३ ) ।
 

२ वर्जनम् इति काव्यज्ञा आहुः ।
 

 
<
विनाडिका>
विनाडिका तु षट् प्राणाः । अहोरात्रशब्दे दृश्यम् ।
 
-
 

 
<
विनाडी>
( प्राणशब्दे दृश्यम् ) ।
 

 
<
विनायकः>
चतुर्थी ( पु० चि० ८६ ) ।
 
-
 

 
<
विनाशित्वम्>
ध्वंसप्रतियोगित्वम् । यथा घटस्य विनाशित्वम् । अत्रेदम-

वधेयम् । आशुविनाशित्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् ।

यागस्याशुविनाशित्वम् (त० प्र० ख० ४ पृ० १०९ ) ।

पदार्थमात्रस्य स्खोत्पत्तिद्वितीयक्षण एव नाशाभ्युपगमात्

ध्वंसप्रतियोगित्वमेव सर्वत्र विनाशित्वम् इत्याहुः ।

 
<
विनिगमना>
अन्यतरपक्षपातिनी युक्तिः ( सि० च०

प्र० ख० ४ पृ० ४७-४८) । यथा अयमेव पक्षो ग्राह्यः

तु न ग्राह्यम् अत्र का विनिगमना इत्यत्र । यथा वा उदिते जुहोति

अनुदिते जुहोति इत्यादि विकल्पस्थले उदित एव हवनं कार्यम् अनुदिते
 
)

(भवा
 
यथा
बौद्धास्तु
द्वितीयक्षणवृत्ति-
पक्षान्तरं
 
)