2023-12-02 13:33:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७६१
 
.
 
वादानुपस्थापितब्रह्मलोकावाप्तेर्नरकात्यन्ताभावस्यैव वा प्रायश्चित्तसंध्या-

वन्दनादिफलत्वसंभवादिष्टसाधनत्वमेव लिङर्थः इति प्राहुः । तत्र स्मर्यते ।

संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं

सनातनम् ॥ इत्यादि ( त० प्र० ४ पृ० १०२ ) । तथोक्तं याज्ञ-

वल्क्येनापि निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्य-

संध्याकरणात्तत्सर्वे विप्रणश्यति ॥ ( याज्ञ० अ० ३ श्लो० ३०८ )

इति । मिताक्षरायां यमेनाप्युक्तम् यदहात्कुरुते पापं कर्मणा मनसा

गिरा । आसीनः पश्चिमां संध्यां प्राणायामैर्निहन्ति तत् ॥ इति । शाता-

तपेनाप्युक्तम् अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं

च संध्या बहिरूपासिता ॥ ( मिताक्ष० अ० ३ श्लो० ३०८ टी०

पृ० १४४ ) इति । २ प्रयोगः । ३ निदर्शनम् । यथा यत्र धूम-

स्तत्राग्निरिति अन्यभावे धूमो न भवति इति च ( प्रश० पृ० ४४ ) ।

४ दैवम् । यथा अनुकूलतामुपगते हि विधौ सकलेष्टसाधनमथो भवति

इत्यादौ । ५ ब्रह्मदेवः । ६ अर्थालंकारविशेषः ।
 

 
<
विधिशेषः>
अर्थवादवाक्यम् । एतल्लक्ष्यप्राशस्त्यज्ञानं शाब्दभावनायामिति
 

कर्तव्यतात्वेन संबध्यते ।
 

 
<
विधेयः>
१ उद्देश्ये प्रकारतया ज्ञायमानो विलक्षणविषयतावान् पदार्थः ।

यथा पर्वतो वह्निमान् धूमात् इत्यादौ पर्वते वह्निर्विधेयः । यथा वा पचति

इत्यादौ पुरुषे पाककृतिर्विधेया। सा च विलक्षणविषयता विधेयतारूपा।

विधेयता च यथा वह्निमनुमिनोमि इत्याद्यनुव्यवसायनियामकः पक्ष-

तावच्छेदकव्यावृत्तो विषयताविशेष: (ग० पक्ष० पृ० १९ ) । केचितु

प्रत्यक्षादिसाधारणी विशेष्यतावच्छेदकताभिन्ना मुख्य विशेष्यतानिरूपित-

प्रकारतैव विधेयता इत्याहुः (ग० पक्ष० पृ० २४ ) ( श० प्र० ) ।

शाब्दिकास्तु तदादिशब्दप्रतिपाद्यत्वे सत्युद्देश्यसंबन्धिना पूर्वबोधविष

अनुवाद्यभिन्ननिष्ठा विलक्षणविषयता वा विधेयता इत्याहुः । अत्रोक्तम्

अनुवाद्यमनुक्त्वा च न विधेयमुदीरयेत् इति । २ मीमांसकास्तु विधि-

बोध्यार्थः । यथा दना जुहोति इति गुणविधौ होममनूद्य दधिरूपो गुणो
 

९६ न्या० को०
 
-