This page has not been fully proofread.

तृतीयावृत्तौ प्रास्ताविकं किंचित् ।
 
अस्मच्छिष्यैरिदानीं
 
रत्नागिरीस्थसंस्कृतपाठशालाध्यापकैर्जोशीत्युपाहैर्दिग-
म्बरशास्त्रिभिरस्मत्सकाशात्सुमहान्तं श्रमभारं स्वीकृत्य महानुपकारभारो -
स्मासु प्रतिनिवेशितः । तथा च प्राच्यविद्यासंशोधनमन्दिर - (भाण्डारकर
ओरिएण्टल रिसर्च इन्स्टिटयूटू) नया संस्थयापि महान्तं द्रव्यव्ययमङ्गीकृत्य
विद्वांस उपकृता एतस्य कोशस्य तृतीयावृत्तिसंपादनेनेत्यत्राप्यन्ते निवे-
दनीयमेवेति मन्ये -
 
अभ्यंकरोपाह-वासुदेवशास्त्री ।