This page has not been fully proofread.

न्यायकोशः ।
 
७२५
 
श्लो० ४२-४४ ) इति । गौतमेनाप्युक्तम् ब्राह्मणस्याधिकं लब्धम्
क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० २ पृ० ६१ )
( मनु० ११८८-९१) इति । ३ वैयाकरणास्तु अकाराद्यक्षरम् इत्याहुः ।
एतेषां वर्णानामुत्पत्तिकमः शिक्षायां कथितः पाणिनिना आत्मा बुद्ध्या
समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति सप्रेरयति
मारुतम् ॥ सोदीर्णो मूर्ध्यमिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते
तेषां विभागः पञ्चधा मतः ॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः
इति । तथा प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति । स्थानेषु
विकृते वायौ कृतवर्णपरिग्रहा ॥ बैखरी वाक् प्रयोक्तॄणां प्राणवृत्ति-
निबन्धिनी । केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ॥ प्राणवृत्तिमनु-
क्रम्य मध्यमा वाक्प्रवर्तते । अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ॥
स्वरूपज्योतिरेवातः परा वागनपायिनी ( महाभार० ) ( वाच० ) इति ।
वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षायामभि हिता वेदितव्याः ।
गायकास्तु ४ गीतक्रमः ५ तालविशेषश्च इत्याहुः । काव्यज्ञास्तु
१० स्तुतिश्च
६ कुङ्कुमम् ७ स्वर्णम् ८ यश: ९ गुणः
इत्याहुः । ११ कार्तान्तिकाश्च विवाहप्रयोजकनक्षत्र विशेषकृतं वर्ण-
कूटम् इत्याहुः (वाच० ()}
 
वर्ण्यसमः—(जातिः ) [ क ] स्थापनीयो वर्ण्यो विपर्ण्ययादवर्ण्यस्तावेतौ
साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यवर्ण्यसमौ भवतः (वात्स्या ० ५।१।४ ) ।
अत्र वर्ण्यत्वं वर्णनीयत्वम् । तच्च संदिग्धसाध्यकत्वादि । अयं वर्ण्यसमस्तु
असाधारणदेशनाभासः साधन विकलदृष्टान्त देशनाभासो वा इति ज्ञेयम्
( गौ०
 
१० वृ० ५/१।४ ) । [ ख ] दृष्टान्ते वर्ण्यत्वस्यापादनम् । अत्रायं
भावः । साध्यदृष्टान्तयोर्धर्मविकल्पात् इति । साध्यः साध्यसिद्व्यभाववान्
संदिग्धसाध्यकादिर्वा । तस्य धर्मः संदिग्धसाध्यकादिवृत्तिर्हेतुः । तस्य
विकल्पात्सत्त्वादृष्टान्ते वर्ण्यत्वस्य संदिग्धसाध्यकत्वस्यापादनम् वर्ण्यसमा ।
तदयमर्थः । पक्षवृत्तिहेतुर्हि गमकः । पक्षश्च संदिग्धसाध्यकः । तथा च
संदिग्धसाध्यकवृत्तिर्हेतुस्त्वया दृष्टान्तेपि स्वीकार्यः । तथा च दृष्टान्तस्यापि