2023-11-26 05:50:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७२३
 
समवायः विशेषणविशेष्यभावश्च इति । प्रयोजनादिकं च सविस्तरं

इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसर उक्तमेवेत्यत्रैव विरम्यते ।
 
G
 

 
<
लौकिकाचारः>
लोकमात्र प्रसिद्धाचारः । यथा अलौकिकाविगीतशिष्टा-

चारविषयत्वम् इत्यादौ भोजनाद्याचारः । अत्र लौकिकत्वं च विधि-

मन्तरा रागादिप्राप्तत्वम् ( नील० मङ्ग० पृ० २ ) ।
 
व.
 

 
<व>
 
<
वंशः - >
दशहस्तपरिमितो वंशः ।
 

 
<
वचनम् - >
१ [ क ] ज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्मे ब्रूते

इत्यादौ ब्रूञोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च

धर्मविषयकत्वस्यान्वयः ( ग० व्यु० का० २ ख० १ पृ० ४६ ) ।

अयमन्वय प्रकारो ब्रुवणशब्दव्याख्याने प्रदर्शितोप्यध्येतृसौकर्यार्थमिह

पुनः प्रदर्शितः इति विज्ञेयम् । [ख ] शाब्दिकास्तु विषयतया ज्ञानानु-

कूलशब्दप्रयोगरूपो व्यापारः । यथा माणवकं धर्मे ब्रूते इत्यादौ ब्रूजोर्थः

इत्याहु: ( ल० म० कार० २ पृ० ९२ ) । २ उपदेशशब्दवदस्यार्थी-

नुसंधेयः । एवम् वदधात्वर्थोपि ज्ञेयः ( श० प्र० श्लो० ७३ टी०

पृ० ९८ ) । ३ वाक्यम् इति काव्यज्ञा आहुः ।
४ व्याकरणशास्त्र -
पृ० ९८ ) । ३ वाक्यम् इति काव्यज्ञा आहुः ।

प्रसिद्धः संख्यार्थकः सुप्तिङ्वरूपः प्रत्ययः । यथा बहुषु बहुवचनम्

(पा० सू० ११४ । २१) द्व्येकयोर्द्विवचनैकवचने (पा० सू० १।४।२२ )

इत्यादौ । ५ झुण्ठी इति भिषज आहुः ।
 

 
<
वधः - >
प्राणवियोगफलकव्यापारः । यथा नाततायिवघे दोषोन्यत्र गो-

ब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यात् ( वीरमित्रो० सुमन्तुस्मृतिः पृ०

२२ - २८) इत्यादौ । वधनिष्पादकत्वं च साक्षात्परंपरया वा बोध्यम् ।

वधनिष्पादकः पञ्चविधः कर्ता प्रयोजकः अनुमन्ता अनुग्राहकः निमित्ती
चेति

। यथाहापस्तम्बः प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु
यो भूय

आरभते तस्मिन्फलविशेष: ( आपस्त० धर्मसु ०
यो भूय भगिनः
२।११।२९/१-२) इति । इषुकारस्तु न वधनिष्पादकः । अन्यत्र
 
भगिनः